NCERT Solutions for Class 10 Abhyasvan Bhav Sanskrit Chapter 3 अनुच्छेदलेखनम्

NCERT Solutions for Class 10 Abhyasvan Bhav Sanskrit Chapter 3 अनुच्छेदलेखनम्

NCERT Solutions for Class 10 Abhyasvan Bhav Sanskrit Chapter 3 अनुच्छेदलेखनम्

कक्षा 10 संस्कृत एनसीईआरटी समाधान

NCERT Solutions for Class 10 Abhyasvan Bhav Sanskrit Chapter 3 Question answer

NCERT Solutions For Class 10 Sanskrit: Students who are preparing for the Class 10 board examination will benefit a great deal from the NCERT Solutions for Class 10 Sanskrit. Sanskrit is one of the important subjects in Class 10 and it plays a crucial role in helping students choose their streams of study in the higher secondary level.

Class 10 Abhyasvan Bhav Sanskrit अनुच्छेदलेखनम् Chapter 3 Question answer

NCERT Solutions for Class 10 Abhyasvan Bhav Sanskrit Chapter 3 अनुच्छेदलेखनम् – Here are all the NCERT Solutions for Class 10 Abhyasvan Bhav Sanskrit Chapter 3. This solution contains questions, answers, images, explanations of the complete Chapter 3 titled अनुच्छेदलेखनम् of Abhyasvan Bhav Sanskrit taught in Class 10. If you are a student of Class 10 who is using NCERT Textbook to study Abhyasvan Bhav Sanskrit , then you must come across Chapter 3 अनुच्छेदलेखनम्. After you have studied lesson, you must be looking for answers of its questions. Here you can get complete NCERT Solutions for Class 10 Abhyasvan Bhav Sanskrit Chapter 3 अनुच्छेदलेखनम् in one place.

Class 10 Abhyasvan Bhav Sanskrit Chapter 3 अनुच्छेदलेखनम् Questions and answers

श्रवण – भाषण – कौशल – विकासार्थम्

1. जन्तुशाला
जन्तूनां शाला जन्तुशाला इति कथ्यते। जन्तुशालायाम् अनेके पशवः पक्षिणः च भवन्ति। जनाः इमान् पक्षिणः पशून् च द्रष्टुम् दूरतः आगच्छन्ति। जन्तुशालायाः सर्वाः व्यवस्थाः प्रशासनेन क्रियते। बालकाः जन्तुशाला गत्वा प्रसन्नाः भवन्ति।

2. स्वच्छता 

स्वच्छता जीवने आवश्यकी भवति। सामान्यतया जनाः स्वगृहं स्वच्छीकुर्वन्ति, परं मार्गस्य प्रतिवेशस्य च स्वच्छतायाः विषये अवधानं न यच्छन्ति। अस्माकं प्रधानमंत्री नरेन्द्रमोदी राष्ट्रपितुः गान्धिनः जन्मदिवसे स्वच्छताभियानस्य आरम्भं कृतवान्। अधुना बालकाः अपि स्वच्छताविषये जागरूकाः सन्ति। ते स्वगृह विद्यालयं च यथाशक्ति स्वच्छं कर्तुं प्रयन्ते।

3. वृक्षो रक्षति रक्षितः
वृक्षाः जीवनस्य आधाराः भवन्ति। वृक्षैः, नदीभिः, पर्वतैः च सुशोभिता इयं प्रकृतिः मानवानां कृते उपयोगिनी भवति। परं स्वार्थरताः मानवाः विकास प्रति अन्धधावनशीलाः निर्ममभावेन वृक्षान् कृन्तन्ति। अस्माभिः सर्वैः तथ्यमिदं ध्यातव्यं यत् यदा वयं वृक्षाणां रक्षणं करिष्यामः तदा वृक्षाः अस्माकं रक्षा करिष्यन्ति। वृक्षाणाम् अवदानविषये श्लोकोऽयं दर्शनीयः अपि-

पत्रपुष्पफलच्छायामूलवल्कलदारुभिः।
गन्धनिर्यासभस्मास्थिततोक्यैः कामान् वितन्वते।।

4. हीमादासः
हीमादासः असमराज्यस्य एकस्मिन् अतिनिर्धने कृषकपरिवारे जन्म अलभत्। अस्याः जन्म जनवरीमासस्य नवम्यां तिथौ द्विसहस्रतमे (2000) वर्षे अभवत्। दारिद्र्यात् सुविधानाम् अभावे सा नियमित प्रशिक्षणमपि न प्राप्नोत् तथापि सा हतोत्साहिता नाभवत्। आई.ए.ए.एफ विंशतिवर्षेभ्यः निम्नवर्गे या धावनप्रतियोगिता अभवत् तस्यां सा स्वर्णपदकं प्राप्य भारतवर्ष गौरवान्वितम् अकरोत्। वस्तुतः आदर्शरूपा प्रेरणास्वरूपा च सा सर्वस्मै युववर्गाय।

5. सहिष्णुता
वयं प्रतिदिनं समाचारेषु यातायातमार्गेषु वर्धमानां हिंसाम् अधिकृत्य सामाचारान् शृणुमः। अतीव दुःखदायिनी एषा स्थितिः यतः अद्यत्वे जनेषु सहिष्णुतायाः अभावः जातः। वस्तुतः सहिष्णुतायाः अभावे मानवस्य दुर्गतिः एव भवति। समाजस्य विघटनस्य कारणमपि धार्मिक-सहिष्णुतायाः अभावः एवास्ति। यदि अस्माकं मनसि ‘वयं सर्वे सदृशाः स्मः’ इति भावना भवेत् तदा प्रकृत्या एव वयं सहनशीलाः भविष्यामः। क्रोधं संयम्य उचितानुचितं विचार्य एव कोऽपि निर्णयः कर्तव्यः।

6. संस्कृतशिक्षणम्
प्राचीनकाले संस्कृतं व्यवहारस्य भाषासीत् परम् अधुना एषा तथा न दृश्यते मन्यते। संस्कृतभाषा जनभाषा भवेद् एतदर्थ ‘संस्कृतभारती’ नामक संस्थानं संस्कृतभाषायाः प्रचाराय प्रसाराय च प्रयतते। अत्र अनेकाः परियोजनाः प्रचाल्यन्ते यासु बालानां कृते वयस्कानां कृते च संस्कृतसम्भाषण-शिक्षणस्य रुचिकरी व्यवस्था क्रियते। ‘वदतु संस्कृतम्’, ‘संस्कृतव्यवहार-साहस्री’, ‘भाषाप्रवेशः’, ‘गीतसंस्कृतम्’ शिशुसंस्कृतम् इत्यादीनि अनेकानि बालोपयोगीनि पुस्तकानि अपि अनेन संस्थानेन प्रकाशितानि। सान्द्रमुद्रिकाः ध्वनिमुद्रिकाः अपि इतः प्राप्तुं शक्यन्ते। एवं संस्कृतभाषाधिग्रहणाय सर्वथा उपयुक्तमेतत् स्थानम्।

7. मम धर्मः
अहं मानवः अस्मि। मानवता मम गुणः धर्म: च। धर्मस्य दृष्ट्या अहं केवलं भारतीयः एव अस्मि। विस्तरेण यदि कथयामि तर्हि भारतीय-परम्परानुसारं धर्मः जीवनव्यवहारः भवति। एवं भ्रातृत्वं, पितृत्वं, शिक्षकत्वं, छात्रत्वं सहयोगित्वं मित्रत्वञ्चादयः मे अनेके धर्माः। एतैः सर्वैः धमैंः उपेतः अहम् एकः भारतीयः एतदेव सत्यम्। भारतस्य उन्नत्यर्थं प्रयतिष्ये भारतीयां संस्कृतिम् च उन्नेष्यामि एष मम सङ्कल्पः।

8. पुस्तकम्
पुस्तकानि मानवस्य सर्वोत्तममित्राणि। कुपितं मित्रम् अस्माभिः सह कपटं कर्तुं शक्नोति परं पुस्तकानि सदैव अस्मांक कल्याणाय सज्जानि भवन्ति, अतः अस्माभिः एतादृशं हितकरं मित्रं कदापि न त्याज्यम्। प्रत्यक्षम् अप्रत्यक्षं सर्वविधं ज्ञानं पुस्तकैः प्राप्तुं शक्यते। अत एव कथितमति–’सर्वस्य लोचनं शास्त्रं यस्य नास्त्यन्ध एव सः।’ अतः पुस्तकमेलकानि अपि भवन्ति यत्र वयं विविधविषयाणां पुस्तकानि एकस्मिन्नेव स्थाने प्राप्तुं क्षमाः, अतः अस्माभिः सदैव स्वाध्यायपरैः भवितव्यम्।

9. स्वाध्यायः
विद्यालये पठितस्य पाठस्य यदा गृहे वयं पुनः अध्ययनं कुर्मः तद्विषये चिन्तनं कुर्मः अभ्यास वा कुर्मः तत्कर्म ‘स्वाध्याय’ इति कथ्यते। अद्यत्वे छात्राणां मूलसमस्या स्वाध्यायस्य अभावः अस्ति। विद्यालये पञ्च-षट्-होरापर्यन्तम् अध्यापकैः विविधविषयानवगत्य छात्र: गृहं प्राप्नोति तदा च अन्यशिक्षकेभ्यः व्यक्तिगतरूपेणापि पाठनस्य प्रबन्धं पितरौ कुरुतः। एवं छात्रेभ्योऽपि इदमेव प्रतीयते यद वयं प्रात:कालात आरभ्य सायं यावत् पठामः एव, अतः अधुना मनोरञ्जनाय अन्यत् किमपि कर्तव्यम्। एवं स्वाध्यायस्य अभावे विषयवस्तु हृदयङ्गमः एव न भवति अपितु परीक्षाचिन्ताकारणं सिध्यति अतः
आवश्यकता तु इयमस्ति यत् पठितं विषयं प्रतिदिनं स्वाध्यायेन हदयङ्गम करणीयम्।

10. मयूरः
मयूरः अस्माकं राष्ट्रियपक्षी अस्ति। एषः मूलतः वन्यपक्षी अस्ति। बहुरङ्गः मयूरः अतिसुन्दरः प्रतिभाति। वर्षाकालं वसन्तर्तुं च प्राप्य एष: सुन्दरम् आकर्षकञ्च नृत्यं करोति। एतस्य नृत्यं दृष्ट्वा केकारवञ्च श्रुत्वा जनाः मुदिताः भवन्ति। भारतवत् म्याँमारस्य, श्रीलङ्कायाश्चापि राष्ट्रियपक्षी मयूरः अस्ति। देवानां सेनापते: कार्तिकेयस्य वाहनम् अपि मयूरः एवास्ति। मयूरपिच्छं विना श्रीकृष्णस्य शृङ्गारः अपूर्ण: मन्यते। अस्माभिः मयूरप्रजाति: रक्षणीया।

11. आतङ्कवादः
हिंसात्मकक्रियाभिः स्वकीय-वर्चस्वस्थापनाय भयोत्पादनम् अथवा भस्य वातावरण निर्माणम् एव आतङ्कवाद: उच्यते। एषः केनापि एकेन जनेन समूहेन वा भवितुं शक्यते। अयम् असामाजिकतत्त्वैः असंवैधानिक-क्रियाभिः स्वकीयेच्छां पूरयितुं विभिन्नस्तरेषु सञ्चाल्यमानः भवति। अनेन समान्यजीवनं सङ्कटापन्नं भवति। आतङ्कवादेन गृहे, समाजे, देशे, विदेशेषु च असुरक्षायाः भावः भयञ्च उत्पद्यते। जनसम्म यत्र कुत्रपि, कदापि, किमपि भवितुं क्यते। आतङ्कवादिसङ्घटनानां मुख्य लक्ष्यं भयोत्पादनमेव। आतङ्कवादस्य समूलनाशाय सर्वेषां राष्ट्राणां सहयोगः परमावश्यकः अस्ति।

1. अधोलिखितविषयानधिकृत्य पञ्चवाक्यात्मकमनुच्छेदं लिखत-
(i) भूकम्पविभीषिका
(ii) पर्वतारोहणम्
(iii) पर्यावरणसंरक्षणम्
(iv) गृहाकार्य कियत् उपयोगी?
(v) मम जीवनलक्ष्यम्
(vi) हास्योपचारः
(vii) ग्राम्यजीवनम्
(viii) जलसंरक्षणस्य उपायाः
(ix) विद्यालयस्य उन्नत्यै छात्राणां सहयोगः
(x) क्रीडाप्रतियोगिता।

NCERT Solutions for Class 10 Sanskrit Shemushi: Detailed, Step-by-Step NCERT Solutions for Class 10 Sanskrit Shemushi शेमुषी भाग 2 Text Book Questions and Answers solved by Expert Teachers as per NCERT (CBSE) Book guidelines. Download Now.

Sanskrit Class 10 NCERT Solutions | Shemushi संस्कृत कक्षा 10 समाधान

Shemushi Sanskrit Class 10 Solutions

Here is the list of Class 10 Sanskrit Chapters.

  1. NCERT Solutions for Class 10 Sanskrit Chapter 1 शुचिपर्यावरणम्
  2. Shemushi Sanskrit Class 10 Solutions Chapter 2 बुद्धिर्बलवती सदा
  3. Sanskrit Class 10 NCERT Solutions Chapter 3 व्यायामः सर्वदा पथ्यः
  4. Class 10 Sanskrit Solutions Chapter 4 शिशुलालनम्
  5. Class 10th Sanskrit Book Solutions Chapter 5 जननी तुल्यवत्सला
  6. 10th Class Sanskrit Book Solution Chapter 6 सुभाषितानि
  7. Shemushi Sanskrit Class 10 Solutions Chapter 7 सौहार्दं प्रकृतेः शोभा
  8. NCERT Class 10 Sanskrit Solutions Chapter 8 विचित्रः साक्षी
  9. Shemushi Class 10 Solutions Chapter 9 सूक्तयः
  10. Shemushi संस्कृत कक्षा 10 समाधान Chapter 10 भूकंपविभीषिका
  11. शेमुषी संस्कृत Class 10 Solutions Chapter 11 प्राणेभ्योऽपि प्रियः सुह्रद्
  12. शेमुषी भाग 2 Solutions Chapter 12 अनयोक्त्यः

Abhyasvan Bhav Sanskrit Class 10 Solutions

Abhyasvan Bhav Sanskrit Class 10 Solutions अभ्यासवान् भव भाग 2

NCERT Class 10 Sanskrit Grammar Book Solutions

Sanskrit Class 10 Grammar | Sanskrit Grammar Book for Class 10 CBSE Pdf

खण्डः ‘क’ (अपठित-अवबोधनम्)

खण्डः ‘ख’ (रचनात्मक कार्यम्)

खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)


NCERT Solutions for Class 10

कक्षा 10 के संस्कृत के लिए सीबीएसई एनसीईआरटी समाधान छात्रों को आत्मविश्वास के साथ सीबीएसई कक्षा 10 वीं परीक्षा करने के लिए पर्याप्त अभ्यास प्राप्त करने में मदद करेगा।


Post a Comment

इस पेज / वेबसाइट की त्रुटियों / गलतियों को यहाँ दर्ज कीजिये
(Errors/mistakes on this page/website enter here)

Previous Post Next Post