NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 11 पर्यावरणम्

 NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 11 पर्यावरणम्

NCERT Solutions for Class 9 Sanskrit

Shemushi Sanskrit Class 9 Solutions Chapter 11 पर्यावरणम्

NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 11 पर्यावरणम् is provided here according to the latest NCERT (CBSE) guidelines. With these solutions students will be able to understand each topic clearly and at the same time prepare well for the exams. Students can easily access the solutions which includes important chapter questions and detailed explanations provided by our experts. Students can further clear all their doubts and also get better marks in the exam.

Get CBSE class 9 Sanskrit NCERT solutions for Shemushi chapter 11 पर्यावरणम् below. These solutions consist of answers to all the important questions in NCERT book chapter 11.

Class 9 Sanskrit Shemushi Chapter 11 पर्यावरणम्


अभ्यासः

प्रश्न 1.
एकपदेन उत्तरं लिखत –

(क) मानवः कुत्र सुरक्षितः तिष्ठति?
(ख) सुरक्षितं पर्यावरणं कुत्र उपलभ्यते स्म?
(ग) आर्षवचनम् किमस्ति?
(घ) पर्यावरणमपि कस्य अङ्गमिति ऋषयः प्रतिपादितवन्तः?
(ङ), लोकरक्षा कया सम्भवति?
(च) अजातशिशुः कुत्र सुरक्षितः तिष्ठति?
(छ) प्रकृतिः केषां संरक्षणाय यतते?
उत्तर:
(क) पर्यावरणकुक्षौ
(ख) वने
(ग) धर्मोक्षति रक्षितः
(घ) धर्मस्य (ङ) प्रकृतिरक्षया
(च) मातृगर्भे
(छ) प्राणिनाम् ।

प्रश्न 2.
अधोलिखितानां प्रश्नानामुत्तराणि संस्कृतभाषया लिखत –

(क) प्रकृतेः प्रमुखतत्त्वानि कानि सन्ति?
(ख) स्वार्थान्धः मानवः किं करोति?
(ग) पर्यावरणे विकृते जाते कि भवति?
(घ) अस्माभिः पर्यावरणस्य रक्षा कथं करणीया?
(ङ) लोकरक्षा कथं संभवति?
(च) परिष्कृतं पर्यावरणम् अस्मभ्यं किं किं ददाति?
उत्तर:
(क) पृथिवी, जल, तेजो, वायुकाशश्चेति प्रकृत्या प्रमुखतत्वानि सन्ति।
(ख) स्वार्थान्धः मानवः पर्यावरणं नाशयति।
(ग) पर्यावरण विकृते जाते विविधाः रोगा: भीषणसमस्याश्च जायन्ते।
(घ) वापीकूपतडागादिनिर्माणं कृत्वा, कुक्कुरसूकर सर्प नकुला स्थलचराणां मत्स्यकच्छ मकर प्रभृतीनां जलचराणां रक्षणेन पर्यावरणस्य रक्षा करणीया।
(ङ) प्रकृतिरक्षयैव लोकरक्षा सम्भवति।
(च) परिष्कृत पर्यावरणम् अस्मभ्यम् सांसारिक जीवनसुखद, सद्विचारम्, सत्यसङ्कल्पम्, माङ्गलिकसामग्रीञ्च प्रददाति।

प्रश्न 3.
स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत –

(क) बनवृक्षाः निविवेक छिद्यन्ते।
(ख) वृक्षकर्तनात् शुद्धवायुः न प्राप्यते।
(ग) प्रकृतिः जीवनसुखं प्रददातिा
(घ) अजातश्शिशुः मातृगर्भे सुरक्षितः तिष्ठति।
(ङ) पर्यावरणरक्षण धर्मस्य अङ्गम् अस्ति।
उत्तर:
(क) के निर्विवेक छिद्यन्ते?
(ख) कस्मात् शुद्धवायुः न प्राप्यते?
(ग) प्रकृतिः किम् प्रददाति?
(घ) अजातश्शिशुः कुत्र/कस्मिन् सुरक्षितः तिष्ठति?
(ङ) पर्यावरणरक्षणं कस्य अङ्गम् अस्ति?

प्रश्न 4.
उदाहरणमनुसृत्य पदरचनां कुरुत –
(क) यथा – जले चरन्ति इति – जलचराः

  1. स्थले चरन्ति इति – …………….
  2. निशायां चरन्ति इति – …………….
  3. व्योम्नि चरन्ति इति – …………….
  4. गिरौ चरन्ति इति – …………….
  5. भूमौ चरन्ति इति – …………….

उत्तर:

  1. स्थलचराः
  2. निशाचराः
  3. व्योमचराः
  4. गिरिचराः
  5. भूमिचराः

(ख) यथा – न पेयम् इति – अपेयम

  1. न वृष्टि इति – …………….
  2. न सुखम् इति – …………….
  3. न भावः इति – …………….
  4. न पूर्णः इति – …………….

उत्तर:

  1. अवृष्टिः
  2. असुखम्
  3. अभावः
  4. अपूर्ण।

प्रश्न 5.
उदाहरणमनुसृत्य पदनिर्माणं कुरुत –
यथा – वि + कृ + क्तिन् – विकृतिः

(क) प्र + गम् + क्तिन्
(ख) दृश् + क्तिन् – ………………
(ग) गम् + क्तिन् – ………………
(घ) मन् + क्तिन् – ………………
(ङ) शम् + क्तिन् – ………………
(च) भी + क्तिन् – ………………
(छ) जन् + क्तिन् – ………………
(ज) भज् + क्तिन् – ………………
(झ) नी + क्तिन् – ………………
उत्तर:
(क) प्रगतिः
(ख) दृष्टिः
(ग) गतिः
(घ) मतिः
(ङ) शान्तिः
(च) भीतिः
(छ) जातिः
(ज) भक्तिः
(झ) नीतिः

प्रश्न 6.
निर्देशानुसारं परिवर्तयत –
यथा – स्वार्थान्धो मानवः अद्य पर्यावरणं नाशयति (बहुवचने)।
स्वार्थान्धाः मानवाः अद्य पर्यावरणं नाशयन्ति।

(क) सन्तप्तस्य मानवस्य मङ्गलं कुतः? (बहुवचने)
(ख) मानवाः पर्यावरणकुक्षौ सुरक्षिताः भवन्ति। (एकवचने)
(ग) वनवृक्षाः निर्विवेकं छिद्यन्ते। (एकवचने)
(घ) गिरिनिर्झरा: निर्मलं जलं प्रयच्छन्ति। (द्विवचने)
(ङ) सरित् निर्मलं जलं प्रयच्छति। (बहुवचने)
उत्तर:
(क) सन्तप्तानां मानवानां मङ्गलं कुतः?
(ख) मानवः पर्यावरणकुक्षौ सुरक्षितः भवति।
(ग) वनवृक्षः निर्विवेकं छिद्यते।
(घ) गिरिनिर्झरौ निर्मल जलं प्रयच्छतः।
(ङ) सरित: निर्मल जलं प्रयच्छन्ति।

(अ) पर्यावरणरक्षणाय भवन्तः किं करिष्यन्ति इति विषये पञ्च वाक्यानि लिखत।
यथा – अहं विषाक्तम् अवकर नदीषु न पातयिष्यामि।
(क) …………………………………………………………………
(ख) ………………………………………………………………..
(ग) ………………………………………………………………..
(घ) ………………………………………………………………..
(ङ) ………………………………………………………………..
उत्तर:
(क) अहम् वृक्षच्छेदनं न करिष्यामि।
(ख) अहम् नूतनवृक्षान् लताः च आरोपयिष्यामि।
(ग) अहम् पशून् पालयिष्यामि।
(घ) अहम् पशुपक्षिणाम् आखेट न करिष्यामि।
(ङ) अहम् वापीकूपतडागादीनां निर्माण करिष्यामि।

प्रश्न 7.
उदाहरणमनुसत्य उपसर्गान् पृथक्कृत्वा लिखत –

यथा-
संरक्षणाय – सम्
(क) प्रभवति – ………………..
(ख) उपलभ्यते – ………………..
(ग) निवसन्ति – ………………..
(घ) समुपहरन्ति – ………………..
(ङ) वितरन्ति – ………………..
(च) प्रयच्छन्ति – ………………..
(छ) उपगता – ………………..
(ज) प्रतिभाति – ………………..
उत्तर:
(क) प्र.
(ख) उप
(ग) नि.
(घ) सम् + उप
(ङ) वि
(च) प्र.
(छ) उप
(ज) प्रति।

(अ) उदाहरणमनुसृत्य अधोलिखितानां समस्तपदानां विग्रहं लिखत –
यथा- तेजोवायु: – तेजः वायुः च।
गिरिनिर्झराः – गिरयः निर्झराः च।

(क) पत्रपुष्पे
(ख) लतावृक्षौ
(ग) पशुपक्षी
(घ) कीटपतङ्गो
उत्तर:
(क) पत्रम् पुष्पम् च।
(ख) लता वृक्षः च।
(ग) पशुः पक्षी च।
(घ) कोट: पतङ्गः च।
(अ) (आ)

परियोजनाकार्यम्

(क) विद्यालयप्राङ्गणे स्थितस्य उद्यानस्य वृक्षाः पादपाश्च कथं सुरक्षिताः स्युः तदर्थ प्रयल: करणीयः इति सप्तवाक्येषु लिखत।
उत्तर:
1. सर्वप्रथमं वृक्षाणां पादपानां च स्पर्श:स्य निषेधः स्यात्।
2. तेषां पुष्पाणामपि स्पर्शस्य निषेधः भवितव्यः।
3. वृक्षाणां फलानामपि कापि हानिः न भवितव्या।
4. तेषां जलसिञ्चनस्य पूर्णः प्रबन्ध: स्यात्।
5. पुष्पविनाशकाय दण्डस्य व्यवस्था अपि स्यात्।
6. वृक्षान् पादपान् वा प्रति रक्षाजालस्य व्यवस्था भवितव्या।
7. वृक्षाणां संरक्षणाय मालाकाराणामपि व्यवस्था स्यात्।

(ख) अभिभावकस्य शिक्षकस्य वा सहयोगेन एकस्य वृक्षस्य आरोपणं करणीयम्। (यदि स्थानम् अस्ति।) तर्हि विद्यालय-प्राङ्गणे, नास्ति चेत् स्वस्मिन् प्रतिवेशे, गृहे वा) कृतं सर्व दैनन्दिन्यां लिखित्वा शिक्षक दर्शयत।
उत्तर:
छात्र अपने-अपने अध्यापक के सहयोग से अपने-अपने विद्यालय में वृक्ष लगाएँ तथा अपनी डायरी में लिखें कि वे उसकी रक्षा के लिए प्रतिदिन क्या-क्या करते हैं। यह सब वे अपने अध्यापक को भी लिखकर दिखाएँ।

Class 9 Sanskrit Shemushi Chapter 11 पर्यावरणम् Additional Important Questions and Answers

अतिरिक्त कार्यम्

प्रश्न 1.
निम्नलिखितम् गद्यांशम् पठित्वा तदाधारितानां प्रश्नानाम् उत्तराणि लिखत –

1. प्रकृतिः समेषां प्राणिनां संरक्षणाय यतते। इयं सर्वान् पुष्णाति विविधैः प्रकारैः सुखसाधनैः च तर्पयति ।
पृथिवी, जलं, तेजः, वायुः, अकाशः च अस्याः प्रमुखानि तत्त्वानि। तान्येव मिलित्वा पृथक्तया वाऽस्माकं पर्यावरणं रचयन्ति। आवियते परितः समन्तात् लोकः अनेन इति पर्यावरणम्। यथा अजातश्शिशुः मातृगर्भ सुरक्षितः तिष्ठति तथैव मानवः पर्यावरणकुक्षौ। परिष्कृतं प्रदूषणरहितं च पर्यावरणम् अस्मभ्यं सांसारिक जीवनसुखं, सद्विचार, सत्यसङ्कल्पं माङ्गलिकसामग्रीञ्च प्रददाति। प्रकृतिकोपैः आतङ्कितो जनः किं कर्तुं प्रभवति? जलप्लावनः, अग्निभयैः, भूकम्पः, वात्याचक्रः, उल्कापातादिभिश्च सन्तप्तस्य मानवस्य क्व मङ्गलम्?

(i) एकपदेन उत्तरत (केवलं प्रश्नद्वयमेव)

  1. प्रकृतिः केषाम् संरक्षणाय यतते?
  2. का विविधैः प्रकारैः सर्वान् पुष्णाति तर्पयति च?
  3. प्रकृतिः कैः पोषयति?

उत्तर:

  1. प्राणिनाम्
  2. प्रकृतिः
  3. सुखसाधनैः।

(ii) पूर्णवाक्येन उत्तरत (केवलं प्रश्नमेकमेव)

  1. प्रकृतिः कथं रक्षणं करोति?
  2. परिष्कृतं प्रदुषणरहितं च पर्यावरणं अस्मभ्यम् किं ददाति?

उत्तर:

  1. प्रकृतिः यथा अजातः शिशुः मातृगर्भे सुरक्षितः तिष्ठति तथैव मानवः पर्यावरणकुक्षी रक्षणं करोति।
  2. परिष्कृतं प्रदूषणरहित च पर्यावरणं अस्मभ्यम् सांसारिक जीवनसुखं, सद्विचार, सत्यसंकल्प मांगलिक सामग्रीञ्च प्रददाति।

(iii) भाषिककार्यम् (केवलं प्रश्नत्रयमेव)

  1. ‘इयं सर्वान् पुष्णाति’ अत्र ‘इयं’ पदम् कस्यै प्रयुक्तम्?
  2. ‘शुद्धम्’ इति पदस्य पर्यायपदं गद्यांशे किम् प्रयुक्तम्?
  3. ‘प्रददाति’ इति क्रियापदस्य कर्तृपदम् किम् अत्र?
  4. अत्र ‘विविधैः’ इति विशेषणपदस्य विशेष्यपदं किम्?

उत्तर:

  1. प्रकृत्ये,
  2. परिष्कृतम्,
  3. पर्यावरणम्
  4. सुखसाधनैः

2. अत एव अस्माभिः प्रकृतिः रक्षणीया। तेन च पर्यावरणं रक्षितं भविष्यति। प्राचीनकाले लोकमङ्गलाशंसिनः ऋषयो बने निवसन्ति स्म। यतो हि बने सुरक्षितं पर्यावरणमुपलभ्यते स्म। तत्र विविधा विहगाः कलकूजिश्रोत्ररसायन वदति। सरिती गिरिनिराश्च अमृतस्वादु निर्मलं जलं प्रयच्छन्ति। वृक्षा लताश्च फलानि पुष्पाणि इन्धनकाष्ठानि च
बाहुल्येन समुपहरन्ति। शीतलमन्दसुगन्धवनपवना औषधकल्पं प्राणवायु वितरन्ति।

(i) एकपदेन उत्तरत (केवलं प्रश्नद्वयमेव)

  1. प्रकृतिः केन रक्षणीया?
  2. के श्रोत्ररसायनं ददति?
  3. प्राचीन काले बने के वसन्ति स्म?

उत्तर:

  1. अस्माभिः
  2. विहगाः
  3. ऋषयः।

(ii) पूर्णवाक्येन उत्तरत (केवलं प्रश्नमेकमेव)

  1. प्राचीनकाले कीदृशाः ऋषयः वने निवसन्ति स्म?
  2. निर्मलं जलं के-के प्रयच्छन्ति?

उत्तर:

  1. प्राचीनकाले लोकमङ्गलाशसिनः ऋषयः वने निवसन्ति स्म।
  2. सरितो गिरिनिर्झराश्च अमृतस्वादु निर्मल जलं प्रयच्छन्ति।

(iii) भाषिककार्यम् (केवलं प्रश्नत्रयमेव)

  1. अत्र ‘आधुनिककाले’ इति पदस्य विपर्ययपदं किम् अस्ति?
  2. ‘विविधाः विहगा: अनयोः पदयोः अत्र विशेषणपदं किम्?
  3. ‘सरिता’ इति कर्तृपदस्य क्रियापदं किम्?
  4. खगाः ‘इति पदस्य पर्यायपदं किम्?’

उत्तर:

  1. प्राचीनकाले
  2. विविधाः
  3. प्रयच्छति
  4. विहगाः

3. परन्तु स्वार्थान्धो मानवः तदेव पर्यावरणम् अद्य नाशयति। स्वल्पलाभाय जना बहुमूल्यानि वस्तूनि नाशयन्ति। जनाः बन्त्रागाराणां विषाक्तं जलं नद्यां निपातयन्ति। तेन मत्स्यादीनां जलचराणां च क्षणेनैव नाशो भवति। नदीजलमपि तत्सर्वथाऽपेयं जायते। मानवाः व्यापारवर्धनाय वनवृक्षान् निर्विवेकं छिन्दन्ति। तस्मात् अवृष्टिः प्रवर्धत, वनपशवश्च शरणरहिता ग्रामेषु उपद्रवं विदधति। शुद्धवायुरपि वृक्षकर्तनात् सङ्कटापन्नो जायते एवं हि स्वार्थान्धमानवै विकृतिम् उपगता प्रकृतिः एव तेषां सर्वेषां विनाशकी भवति। विकृतिमुपगते पर्यावरणे विविधाः रोगा: भीषणसमस्याश्च सम्भवन्ति तत्सर्वमिदानी चिन्तनीय प्रतिभाति।

(i) एकपदेन उत्तरत (केवलं प्रश्नद्वयमेव)

  1. कीदृशः मानवः अद्य पर्यावरणं नाशयति?
  2. कस्याः जलम् सर्वथा अपेयं जायते?
  3. जनाः किमर्थम् बहुमूल्यानि वस्तूनि नाश्यन्ति?

उत्तर:

  1. स्वार्थान्धः,
  2. नद्याः (नदीजलम्)
  3. स्वल्पलाभाय।

(ii) पूर्णवाक्येन उत्तरत (केवलं प्रश्नमेकमेव)

  1. यन्त्रागाराणां जलं किम् करोति?
  2. वृक्षकर्तनात् कीदृशः संकटापन्नो जात?

उत्तर:

  1. यन्त्रागाराणां विषाक्तं जलं नद्यां निपात्यते येन मत्स्यादीनां जलचराणां च क्षणेनैव नाशः जायते।
  2. शुद्धवायुरपि वृक्षकर्तनात् संकटापन्नो जातः।

(ii) भाषिककार्यम् (केवलं प्रश्नत्रयमेव)

  1. ‘बहुलाभाय’ अस्य पदस्य विपर्ययपदं किं प्रयुक्तम्?
  2. ‘भवति’ इति क्रियापदस्य कर्ता कः?
  3. ‘विविधाः रोगाः’ अनयोः पदयोः अत्र विशेष्यपदं किम्?
  4. ‘वस्तूनि’ इति विशेष्य पदस्य विशेषणपदं किम् अत्र?

उत्तर:

  1. स्वल्पलाभाय,
  2. प्रकृतिः,
  3. रोगाः
  4. बहुमूल्यानि।

4. धर्मो रक्षति रक्षितः इत्यार्धवचनम्। पर्यावरणरक्षणमपि धर्मस्यैवाङ्गमिति ऋषयः प्रतिपादितवन्तः। अत एव ‘वापीकूपतडागादिनिर्माणं देवायतन-विश्रामगृहादिस्थापनञ्च धर्मसिद्धेः स्रोतो रूपेण अङ्गीकृतम्। कुक्कुर-सूकर-सर्प-नकुलादि-स्थलचराः, मत्स्य-कच्छप-मकरप्रभृतयः जलचराश्च अप रक्षणीयाः, यतः ते स्थलमलानाम् अपनोदिन: जलमलानाम् अपहारिणश्च। प्रकृतिरक्षया एव लोकरक्षा सम्भवति इत्यत्र न संशयः।

(i) एकपदेन उत्तरत (केवलं प्रश्नद्वयमेव)

  1. ‘धर्मो रक्षति रक्षितः’ इति कीदृशम् वचनम्?
  2. पर्यावरणरक्षणं कस्य अङ्गम् इति?
  3. क: रक्षितः रक्षति?

उत्तर:

  1. आप्रवचनम्,
  2. धर्मस्य
  3. धर्मः।

(ii) पूर्णवाक्येन उत्तरत (केवलं प्रश्नमेकमेव)

  1. आर्षवचनम् किम्?
  2. स्थलचराः के-के, भवन्ति?

उत्तर:

  1. ‘धर्मो रक्षति रक्षितः’ इति आर्षवचनम् अस्ति।
  2. कुक्कुर-सूकर-सर्प-नकुल आदयः स्थलचराः भवन्ति।

(iii) भाषिककार्यम् (केवलं प्रश्नत्रयमेव)

  1. ‘प्रतिपादितवन्तः’ इति क्रियापदस्य कर्तृपदं किम्?
  2. अनुच्छेदे ‘लोकरक्षा’ इति कर्तृपदस्य क्रियापदं किम्?
  3. अनुच्छेदे ‘स्थलचराः’ इति पदस्य विपर्ययपदं किम्?
  4. अत्र ‘ऋषीणां’ इति पदस्य पर्यायपदं किम्?

उत्तर:

  1. ऋषयः
  2. संभवति
  3. जलचराः
  4. आर्षः।

प्रश्न 2.
निम्नवाक्येषु रेखाङ्कित पदानां स्थानेषु प्रश्नवाचक पदं लिखत –

प्रश्न 1.
प्रकृतिः प्राणिनाम् संरक्षति।
(क) केषाम्
(ख) का
(ग) कः
(घ) के
उत्तर:
(क) केषाम्

प्रश्न 2.
प्रकृतिः सुखसाधनैः तर्पयति।
(क) केन
(ख) किमर्थम्
(ग) कैः
(घ) के
उत्तर:
(ग) कैः

प्रश्न 3.
पञ्चतत्वानि मिलित्वा पर्यावरणं रचयन्ति।
(क) कानि
(ख) किम्
(ग) कीदृशम्
(घ) के
उत्तर:
(ख) किम्

प्रश्न 4.
‘परिष्कृतम्’ पर्यावरणं अस्मभ्यम् जीवनं यच्छति।
(क) किम्
(ख) कीदृशम्
(ग) केन
(घ) के
उत्तर:
(ख) कीदृशम्

प्रश्न 5.
प्रकृतिकोपैः जनः आतङ्कितः भवति।
(क) कीदृशः
(ख) कीदृशम्
(ग) कीदृशेन
(घ) के
उत्तर:
(क) कीदृशः

प्रश्न 6.
‘इन्धनकाष्ठानि’ बाहुल्येन समुपहरन्ति।
(क) कानि
(ख) काम्
(ग) कम्
(घ) के
उत्तर:
(क) कानि

प्रश्न 7.
वृक्षकर्तनात् सङ्कटापन्नो जातः।
(क) कात्
(ख) कस्मात्
(ग) केन
(घ) के
उत्तर:
(ख) कस्मात्

प्रश्न 8.
यन्त्रागाराणां विषाक्तं जलं नद्याम् पतन्ति।
(क) काम्
(ख) कानाम्
(ग) कासाम्
(घ) के
उत्तर:
(घ) केषाम्.

प्रश्न 9.
पर्यावरणरक्षणं धर्मस्य अङ्ग इति ऋषयः कथयन्ति।
(क) कस्य
(ख) किम्
(ग) कम्
(घ) के
उत्तर:
(क) कस्य

प्रश्न 10.
शुद्धपर्यावरणं अस्मभ्यम् जीवनं यच्छति।
(क) केभ्यः
(ख) कम्
(ग) किमर्थम्
(घ) के
उत्तर:
(क) केभ्यः

प्रश्न 11.
स्वार्थान्धः मानवः अद्य पर्यावरणं नाशयति।
(क) कीदृशः
(ख) कः
(ग) केन
(घ) के
उत्तर:
(क) कीदृशः

प्रश्न 12.
पञ्च प्रमुखानि तत्त्वानि सन्ति।
(क) कदा
(ख) कति
(ग) क:
(घ) के
उत्तर:
(ख) कति

प्रश्न 13.
वने ऋषयः वसन्ति स्म?
(क) के
(ख) केन
(ग) कासाम्
(घ) का
उत्तर:
(क) के

प्रश्न 14.
प्राचीनकाले ऋषयः लोकमङ्गलाशसिनः आसन्।
(क) कति
(ख) कः
(ग) कदा,
(घ) के
उत्तर:
(ग) कदा,

प्रश्न 15.
भूकम्पैः मानवस्य मङ्गलम् या भवति?
(क) केषाम्
(ख) कथम्
(ग) कैः
(घ) के
उत्तर:
(ग) कैः

प्रश्न 16.
विहगाः श्रोत्ररसायनं ददति।
(क) कानाम्
(ख) कासाम्
(ग) कैः
(घ) के
उत्तर:
(घ) के

प्रश्न 17.
स्वल्पलाभाय जनाः बहुमूल्यानि वस्तूनि नाशयन्ति।
(क) कीदृशानि
(ख) के
(ग) कैः
(घ) का
उत्तर:
(क) कीदृशानि

प्रश्न 3.
कीदृशानि निम्न ‘क’ वर्गीय पदानाम् ‘ख’ वर्गीय पदेषु पर्यायपदम् चित्वा लिखत –

‘क’ वर्ग: – ‘ख’ वर्ग:
1. यतते – कर्णामृतम्
2 कुक्षौ – अधुना
3. परितः – शोचनीयम्
4. परिष्कृतम् – ऋषयः
5. गिरिनिर्झराः – प्रयलं करोति
6. श्रोत्ररसायनम् – स्वीकृतम्
7. प्राणवायु: –
8. अपेयम् – पर्वतानां प्रपाताः
9. इदानीम् – गर्भ
10. अवृष्टिः – समन्तात्
11. चिन्तनीयम् – आक्सीजनम्
12. देवायतनम् – पातुम् अयोग्यम्
13. आर्षः – वर्षारहितः
14. अङ्गीकृतम् – देवालयः
उत्तर:
1. – प्रयत्न करोति.
2. – गर्भ.
3. – समन्तात.
4. – शुद्धम,
5. – पर्वतानां प्रपाताः,
6. – कर्णामृतम,
7. – आक्सीजना
8. – पातुम् अयोग्यम्
9. – अधुना,
10. – वर्षारहितः
11. – शोचनीयम्
12. – देवालयः
13. – ऋषयः
14. – स्वीकृतम्।

प्रश्न 4.
‘क’ स्तम्भे विशेषणानि ‘ख’ स्तम्भे विशेष्याणि दत्तानि। तानि समुचित योजयत –

‘क’ स्तम्भः – ‘ख’ स्तम्भः
1. प्रमुखानि – सुखसाधनैः
2. विविधैः – प्रकृतिः
3. इयं – मानवस्य
4. सन्तप्तस्य – विहगाः
5. आतङ्कितः – जलम्
6. विविधाः – वनपवनः
7. निर्मलम् – प्रकृतिः
8. शीतलः – धर्म:
9. बहुमूल्यानि – प्राणिनाम्
10. विनाशकी – वस्तुनि
11. रक्षितः – जनः
12. समेषाम् – तत्त्वानि
उत्तर:
1. – तत्वानि
2. – सुखसाधनैः
3. – प्रकृतिः
4. मानवस्य
5. – जनः
7. – विहगाः
8. – जलम्
9. – वनपवनः
10. – वस्तूनि
11. – प्रकृतिः
12. – धर्म:
13. – प्राणिनाम्

प्रश्न 5.
निम्न ‘क’ वर्गीय पदानाम् ‘ख’ वर्गीय पदेषु विलोमपदानि मेलयत –

‘क’ वर्गः – ‘ख’ वर्ग:
1. जलचराः – पुरा
2. संशयः – पेयम्
3. धर्म: – उपकी
4. रक्षितः – अविषाक्तम्
5. स्वार्थ: – असुरक्षितम्
6. अद्य – असत्यम्
7. अपेयम् – असंशयः
8. निर्विवेकम – परार्थ:
9. विनाशकी – अधर्मः
10. विषाक्तम् – स्थलचरा:
11. भविष्यति – अरक्षितः
12. प्राचीनकाले – सविवेकम्
13. सुरक्षितम् – आसीत्
14. सद्विचारम् – आधुनिक काले
15. अजातशिशुः – कुविचारम्
16. सत्यम् – जातशिशुः
उत्तर:
1. – स्थलचराः
2. – असंशयः
3. – अधर्मः
4. – अरक्षितः
5. – परार्थः
6. – पुरा
7. – पेयम्
8. – सविवेकम
9. – उपकी
10. – अविषाक्तम्
11. – आसीत्
12. – आधुनिक काले
13. – असुरक्षितम्
14. – कुविचारम्
15. – जातशिशुः
16. – असत्यम्।

NCERT Solutions for Class 9 Sanskrit Shemushi शेमुषी भाग 1 | Class 9th Sanskrit Solutions


NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 1 भारतीवसन्तगीतिः
NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 2 स्वर्णकाकः
NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 3 गोदोहनम्
NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 4 कल्पतरूः
NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 5 सूक्तिमौक्तिकम्
NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 6 भ्रान्तो बालः
NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 7 प्रत्यभिज्ञानम्
NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 8 लौहतुला
NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 9 सिकतासेतुः
NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 10 जटायोः शौर्यम्
NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 11 पर्यावरणम्
NCERT Solutions for Class 9 Sanskrit Shemushi Chapter 12 वाडमनःप्राणस्वरूपम्

NCERT Solutions for Class 9 Sanskrit Abhyaswaan Bhav अभ्यासवान् भव | Class 9th Sanskrit Solutions


Abhyasvan Bhav Class 9 Solutions Chapter 1 अपठितावबोधनम्
Abhyasvan Bhav Class 9 Solutions Chapter 2 पत्रम्
Abhyasvan Bhav Class 9 Solutions Chapter 3 चित्रवर्णनम्
Abhyasvan Bhav Class 9 Solutions Chapter 4 संवादानुच्छेदलेखनम्
Abhyasvan Bhav Class 9 Solutions Chapter 5 रचनानुवादः
Abhyasvan Bhav Class 9 Solutions Chapter 6 कारकोपपदविभक्तिः
Abhyasvan Bhav Class 9 Solutions Chapter 7 सन्धिः
Abhyasvan Bhav Class 9 Solutions Chapter 8 उपसर्गाव्ययप्रत्ययाः
Abhyasvan Bhav Class 9 Solutions Chapter 9 समासाः
Abhyasvan Bhav Class 9 Solutions Chapter 10 शब्दरूपाणि
Abhyasvan Bhav Class 9 Solutions Chapter 11 धातरूपाणि
Abhyasvan Bhav Class 9 Solutions Chapter 12 वर्णविचारः
Abhyasvan Bhav Class 9 Solutions परिशिष्टम् – 1
Abhyasvan Bhav Class 9 Solutions परिशिष्टम् – 2

Post a Comment

इस पेज / वेबसाइट की त्रुटियों / गलतियों को यहाँ दर्ज कीजिये
(Errors/mistakes on this page/website enter here)

Previous Post Next Post