NCERT Solutions for Class 10 Sanskrit Grammar अपठित-अवबोधनम्

NCERT Solutions for Class 10 Sanskrit Grammar अपठित-अवबोधनम्

NCERT Solutions for Class 10 Sanskrit Grammar  अपठित-अवबोधनम्

कक्षा 10 संस्कृत एनसीईआरटी समाधान

NCERT Solutions for Class 10 Sanskrit Grammar Question answer

NCERT Solutions For Class 10 Sanskrit: Students who are preparing for the Class 10 board examination will benefit a great deal from the NCERT Solutions for Class 10 Sanskrit. Sanskrit is one of the important subjects in Class 10 and it plays a crucial role in helping students choose their streams of study in the higher secondary level.

Class 10 Sanskrit Grammar अपठित-अवबोधनम् Question answer

NCERT Solutions for Class 10 Sanskrit Grammar अपठित-अवबोधनम् – Here are all the NCERT Solutions for Class 10 Sanskrit Grammar . This solution contains questions, answers, images, explanations of the complete Chapter titled अपठित-अवबोधनम् of Sanskrit Grammar taught in Class 10. If you are a student of Class 10 who is using NCERT Textbook to study Sanskrit Grammar , then you must come across अपठित-अवबोधनम्. After you have studied lesson, you must be looking for answers of its questions. Here you can get complete NCERT Solutions for Class 10 Sanskrit Grammar अपठित-अवबोधनम् in one place.

Class 10 Sanskrit Grammar अपठित-अवबोधनम् Questions and answers

Sanskrit Vyakaran Class 10 Solutions अपठित-अवबोधनम्

गद्यांशः
गद्यांश के प्रश्नों के उत्तर लिखने से पहले निम्नलिखित बातों का ध्यान रखना आवश्यक है-

  • सबसे पहले दिए गए गद्यांश को तीन-चार बार ध्यान से पढ़ना चाहिए।
  • गद्यांश में दिए गए अव्ययों तथा विभक्तियों का पूरा ध्यान रखना चाहिए।
  • किसी शब्द का अर्थ स्पष्ट न होने की स्थिति में पूरे वाक्य (जिस वाक्य में शब्द दिया गया है) को ध्यान से पढ़कर शब्द का भाव ग्रहण करना चाहिए।
  • शीर्षक सार्थक वाक्य या सूक्ति की एक प्रसिद्ध पंक्ति में ही होना चाहिए।
  • ‘भाषिककार्यम्’ से संबंधित प्रश्नों के उत्तर संबंधित वाक्यों को अच्छी तरह से पढ़कर और उन्हें समझकर ही दिए जा सकते हैं।

निम्नलिखित गद्यांशों पर आधारित प्रश्नोत्तरों को ध्यान से पढ़िए।

गद्यांश 1

दीपावली प्राचीनतमं पर्व। अस्मिन् दिने सर्वाधिकम् आकर्षकं मनोरञ्जञ्च भवति स्फोटकानाम् आस्फोटनम्। विचित्राणि वर्णयुक्तानि स्फोटकानि आकाशे भूमौ च विविधरूपाणि दर्शयन्ति। जनाः तानि दृष्ट्वा तुष्यन्ति। परन्तु अति सर्वत्र वर्जयेत्। रात्रौ आस्फोटकानां शब्दः कर्णौ बधिरीकरोति वायुमण्डलं च दूषयति। पूर्वं जनसंख्या सीमिता आसीत्। वृक्षाः वायुं शुद्धं कुर्वन्ति स्म। इदानीम् जनसंख्या प्रवृद्धा, वृक्षसंख्या क्षीणा। विस्फोटकेभ्यः निर्गतः धूमः रुग्णान् पीडयति, नवजातशिशुभ्यः हानिकरः सिध्यति। दीपावली-समये शरदि आकाशः निर्मलः भवति। सर्वत्र पवित्रता विराजते। अतः वयम् आनन्देन दीपावलीम् मानयेम, वसुन्धरां भूषितां कुर्याम न तु दूषिताम्। सर्वेषां जीवन सुखमयं भवेत्। किं तेन उत्सवेन यः कस्मैचित् अपि कष्टकर: भवेत्? ‘मा कश्चिद् दुःखभाग भवेत्’ इति अस्माकम् आदर्शः।

प्रश्न I.
एकपदेन उत्तरत (केवलं प्रश्नद्वयमेव)। (एक पद में उत्तर दीजिए-केवल दो प्रश्नों के ही। Answer in one word only-only two questions.)
(i) केषाम् आस्फोटनम् सर्वेभ्यः आकर्षकम् मनोरञ्जकम् च?
(ii) दीपावली कस्यां ऋतौ भवति?
(iii) दीपावली कीदृशं पर्व अस्ति?
उत्तराणि:
(i) स्फोटकानाम्
(ii) शरदि
(ii) प्राचीनतमम्

प्रश्न II.
पूर्णवाक्येन उत्तरत (केवलं प्रश्नद्वयमेव)। (पूर्ण वाक्य में उत्तर दीजिए-केवल दो प्रश्नों के ही। Answer in a complete sentence only two questions.)
(i) अस्माकं कः आदर्शः?
(ii) स्फोटकानां धूमः कान् पीडयति?
(iii) वयं दीपावलीम् कथं मानयेम?
उत्तराणि:
(i) ‘मा कश्चिद् दुःखभाग् भवेत्’ इति अस्माकम् आदर्शः।
(ii) स्फोटकानां धूमः रुग्णान् पीडयति।
(iii) वयम् आनन्देन दीपावलीम् मानयेम, वसुन्धरां भूषितां कुर्याम न तु दूषिताम्।

प्रश्न III.
भाषिककार्यम् (केवलं प्रश्नत्रयमेव)। (भाषा संबंधी कार्य-केवल तीन प्रश्नों के ही। Work of Language-only three questions.)
(i) ‘प्रवृद्धा’ इत्यस्य किं विलोमपदम् अत्र प्रयुक्तम्?
(क) सीमिता
(ख) निर्गतः
(ग) क्षीणा
(घ) पवित्रता
उत्तराणि:
(ग) क्षीणा

(ii) ‘पर्व’ इत्यस्य किं विशेषणम् अत्र प्रयुक्तम् ?
(क) प्राचीनतमम्
(ख) आकर्षकम्
(ग) मनोहरम्
(घ) शुद्धम्
उत्तराणि:
(क) प्राचीनतमम्

(iii) ‘लाभकरः’ इत्यस्य किं विपर्ययपदं प्रयुक्तम्?
(क) निर्गतः
(ख) कष्टकर:
(ग) आदर्श:
(घ) हानिकरः
उत्तराणि:
(घ) हानिकरः

(iv) ‘सर्वत्र पवित्रता विराजते’ अत्र क्रियापदं किम्?
(क) सर्वत्र
(ख) विराजते
(ग) पवित्रता
(घ) पवित्रताम्
उत्तराणि:
(ख) विराजते

प्रश्न IV.
अस्य अनुच्छेदस्य कृते समुचितं शीर्षकं लिखत। (इस अनुच्छेद के लिए समुचित शीर्षक लिखिए। Write a suitable title for this paragraph.)
उत्तराणि:
दीपावल्याः पर्यावरणे प्रभावः / अति सर्वत्र वर्जयेत् / वयं दीपावली कथं मानयेम / दीपावली महापर्व।

गद्यांश 2

‘रामायणम् इतिहासः, न तु पुराणम्’ इति हि भारतीया श्रद्धा। या घटना प्रवृत्ता तां विवृणोति इतिहासः। किन्तु पुराणं तथा न। भक्तिश्रद्धादीनाम् उत्पादनाय कथा कल्पते तत्र। पुराणेषु अपि क्वचित् ऐतिहासिकाः अंशाः समाविष्टाः भवन्ति इति तु अन्यद् एतत्। इतिहासग्रन्थे तु यत् वर्ण्यते तत् समग्रं वास्तविकं भवति। वर्णनादिषु कविकल्पना स्यात् चेदपि वृत्तं तु वास्तविकमेव। रामायणमहाभारतयोः ऐतिहासिकताविषये पारम्परिकाणां न सन्देहः कदापि।
किन्तु आधुनिकाः इतिहासपुराणयोः भेदस्य अवगमने (ज्ञातुम्) असमर्थाः सन्ति। येन कथा वर्ण्यते विस्तरेण, सः सर्वोऽपि ग्रन्थराशिः पुराणतुल्यः एव इति तेषां मतम् अस्ति। अतः ते रामायणस्य ऐतिहासिकताविषये प्रमाणम् अपेक्षन्ते। तद्विषये मान्येन पुष्कर भटनागर वर्येण कश्चन सफलः प्रयासः कृतः अस्ति। आधुनिकं तन्त्रांशम् (Software) उपयुज्य सः रामायणे वर्णिताः खगोलीयघटनाः वास्तविकाः एव इति सप्रमाणं निरूपितवान् अस्ति।

प्रश्न I.
एकपदेन उत्तरत (केवलं प्रश्नद्वयमेव)। (एक पद में उत्तर दीजिए -केवल दो प्रश्नों के ही। Answer in one word only-only two questions.)
(i) रामायणम् किम्?
(ii) या घटना प्रवृत्ता तां कः विवृणोति?
(iii) पुराणेषु क्वचित् कीदृशाः अंशाः समाविष्टाः भवन्ति?
उत्तराणि:
(i) इतिहासः
(ii) इतिहासः
(iii) ऐतिहासिकाः

प्रश्न II.
पूर्णवाक्येन उत्तरत (केवलं प्रश्नद्वयमेव)। (पूर्ण वाक्य में उत्तर दीजिए-केवल दो प्रश्नों के ही। Answer in a complete sentence only two questions.)
(i) किन्तु आधुनिकाः कस्मिन् असमर्थाः सन्ति?
(ii) पुराणेषु का कल्पते?
(iii) कुत्र कदापि पारम्परिकाणां न सन्देहः?
उत्तराणि:
(i) किन्तु आधुनिकाः इतिहासपुराणयोः भेदस्य अवगमने (ज्ञातुम्) असमर्थाः सन्ति।
(ii) पुराणेषु भक्तिश्रद्धादीनाम् उत्पादनाय कथा कल्पते।
(iii) रामायणमहाभारतयोः ऐतिहासिकताविषये पारम्परिकाणां न सन्देहः कदापि।

प्रश्न III.
भाषिककार्यम् (केवलं प्रश्नत्रयमेव)। (भाषा संबंधी कार्य-केवल तीन प्रश्नों के ही। Work of Language-only three questions.)
(i) ‘आधुनिकं तन्त्रांशम्’। अनयोः पदयोः विशेष्यपदं किम्?
(क) आधुनिकम्
(ख) तन्त्रांशम्
(ग) तन्त्रांशः
(घ) आधुनिकः
उत्तराणि:
(ख) तन्त्रांशम्

(ii) अनुच्छेदे ‘कल्पते’ इति क्रियायाः कर्तृपदं किम्?
(क) उत्पादनाय
(ख) भक्तिश्रद्धादीनाम्
(ग) तत्र
(घ) कथा
उत्तराणि:
(घ) कथा

(iii) ‘या घटना प्रवृत्ता’ अत्र क्रियापदं किम्?
(क) या
(ख) घटना
(ग) प्रवृत्ता
(घ) घटनाः
उत्तराणि:
(ग) प्रवृत्ता

(iv) अनुच्छेदे ‘असफलः’ इति पदस्य कः विपर्ययः आगतः?
(क) प्रयासः
(ख) सफल:
(ग) कृतः
(घ) सन्देहः
उत्तराणि:
(ख) सफल:

प्रश्न IV.
उपरिलिखितस्य अनुच्छेदस्य कृते समुचितं शीर्षकं लिखत। (इस अनुच्छेद के लिए समुचित शीर्षक लिखिए। Write a suitable title for this paragraph.)
उत्तराणि:
ऐतिहासिकं काव्यं रामायणम्।


गद्यांश 3

संस्कृतं नाम भारतम्। संस्कृतं नाम भगवद्गीता। संस्कृतं नाम वेदाः रामायणं महाभारतं वा। संस्कृतं हि भारतस्य आत्मा वर्तते। सा भारतस्य आउत्तरात् दक्षिणान्तं, आपूर्वस्मात् पश्चिमान्तं च ऐक्यसाधिकाशक्तिः अस्ति। संस्कृतस्य स्मरणात् पञ्चाङ्गं स्मर्यते, तत्रत्याः तिथयः नक्षत्राणि च अपि स्मर्यन्ते, यासाम् आधारेण एव सर्वैः अपि भारतीयैः पर्वाणि, कुम्भ-मेलकं, होलिकोत्सवः, दीपावली, दुर्गापूजा, रक्षाबन्धनम् इत्यादीनि आचर्यन्ते। गुरुः गोविन्द सिंहः स्वीयान् श्रेष्ठान् सिक्खपण्डितान् काशी प्रति प्रेषितवान् आसीत्-संस्कृतम् अधीयताम् इति आदिश्य। ते च योद्धाः, पण्डिताः क्रान्तिकारिणः च ‘नामधारिणः’ इति विख्याताः आसन्। संस्कृतं भारतात् अपसारितं चेत् तेनेदं नाम एव अस्माकं शरणं स्यात्। आजन्मनः मरणपर्यन्तं संस्कृतस्य अवलम्बनम् अपरिहार्यम् एव अस्माकम्।

प्रश्न I.
एकपदेन उत्तरत (केवलं प्रश्नद्वयमेव)। (एक पद में उत्तर दीजिए-केवल दो प्रश्नों के ही। Answer in one word only-only two questions.)
(i) भगवद्गीता कस्यां भाषायां वर्तते?
(ii) संस्कृतस्य समरणात् किं स्मर्यते?
(iii) के “नामधारिणः’ इति विख्याताः सन्ति?
उत्तराणि:
(i) संस्कृतभाषायाम्
(ii) पञ्चाङ्गम्
(iii) पण्डिताः

प्रश्न II.
पूर्णवाक्येन उत्तरत (केवलं प्रश्नद्वयमेव)। (पूर्ण वाक्य में उत्तर दीजिए-केवल दो प्रश्नों के ही। Answer in a complete sentence only two questions.)
(i) गुरुः गोविन्द सिंहः कान् काशी प्रति प्रेषितवान् आसीत्?
(ii) संस्कृतं भारतात् अपसारितं चेत् कि भविष्यति?
(iii) अस्माकं कस्य अवलम्बनम् अपरिहार्यम् एव?
उत्तराणि:
(i) गुरुः गोविन्द सिंहः स्वीयान् श्रेष्ठान् सिक्खपण्डितान् काशी प्रति प्रेषितवान् आसीत्।
(ii) संस्कृतं भारतात् अपसारितं चेत् तेनेदं नाम एव अस्माकं शरणं स्यात् इति।
(iii) अस्माकम् आजन्मनः मरणपर्यन्तं संस्कृतस्य अवलम्बनम् अपरिहार्यम् एव।

प्रश्न III.
भाषिककार्यम् (केवलं प्रश्नत्रयमेव)। (भाषा संबंधी कार्य-केवल तीन प्रश्नों के ही। Work of Language only three questions.)
(i) ‘ऐक्यसाधिका शक्तिः’ अनयोः पदयोः विशेषणपदं किम्?
(क) शक्तिः
(ख) ऐक्यसाधिका
(ग) साधिका
(घ) ऐक्यम्
उत्तराणि:
(ख) ऐक्यसाधिका

(ii) ‘प्रेषितवान् आसीत्’ इति क्रियायाः कर्तृपदं किम् वर्तते अनुच्छेदे?
(क) गुरुः गोविन्दसिंहः
(ख) गुरुः
(ग) गोविंद सिंहः
(घ) काशीम्
उत्तराणि:
(क) गुरुः गोविन्दसिंहः

(iii) ‘अवलम्बनम् अपरिहार्यम् एव अस्माकम्।’ अत्र ‘अस्माकम्’ पदं केभ्यः प्रयुक्तम्?
(क) भारतीय
(ख) भारतीयाय
(ग) भारतीयेभ्यः
(घ) जनेभ्यः
उत्तराणि:
(ग) भारतीयेभ्यः

(iv) अनुच्छेदे ‘विद्वांसः’ पदस्य कः पर्यायः आगतः?
(क) योद्धाः
(ख) शिष्याः
(ग) क्रान्तिकारिणः
(घ) पण्डिताः
उत्तराणि:
(घ) पण्डिताः

प्रश्न IV.
अस्य अनुच्छेदस्य कृते समुचितं शीर्षकं लिखत। (इस अनुच्छेद के लिए समुचित शीर्षक लिखिए। Write a suitable title for this paragraph.)
उत्तराणि:
संस्कृतभाषायाः महत्त्वम्।

गद्यांश 4

एकदा शरीरस्य सर्वाणि इन्द्रियाणि-हस्तौ, पादौ, मुखं, नासिका, कर्णी इत्यादीनि मिलित्वा अचिन्तयन्-“वयं सर्वे प्रतिदिनं परिश्रमं कुर्मः। एतद् उदरं सर्वं स्वीकरोति, स्वयं किमपि कार्यं न करोति। अद्यप्रभृति वयमपि कार्यं न करिष्यामः”। एवं चिन्तयित्वा सर्वाणि अङ्गानि कार्यम् अत्यजन्। पादौ स्थिरौ भूत्वा अतिष्ठताम्। हस्तौ निश्चलौ अभवताम्। मुखं अन्नकणम् अपि न प्रावेशयत् एवं द्वे दिने व्यतीते जाते। शनैः शनैः सर्वाणि अङ्गानि शिथिलानि अभवन्। कार्यशक्तिः क्षीणा अभवत्। कथमपि पुनः मिलित्वा विचारम् अकुर्वन् “अहो! अस्माकं प्रमादः। भुक्तस्य अन्नस्य पाचनं तु उदरमेव करोति। एतद् एव अस्मभ्यं शक्तिं ददाति। अस्य कृपया एव वयं जीवामः। अतः अस्माभिः सर्वैः अनेन सह सहयोगः करणीयः”। नूनं संहतिः एव कार्यसाधिका।

प्रश्न I.
एकपदेन उत्तरत (केवलं प्रश्नद्वयमेव)। (एक पद में उत्तर दीजिए-केवल दो प्रश्नों के ही। Answer in one word only-only two questions.)
(i) शनैः शनैः सर्वाणि अङ्गानि कीदृशानि अभवन्?
(ii) कार्यसाधिका का भवति?
(iii) कानि मिलित्वा अचिन्तयन्?
उत्तराणि:
(i) शिथिलानि
(ii) संहतिः
(iii) इन्द्रियाणि

प्रश्न II.
पूर्णवाक्येन उत्तरत (केवलं प्रश्नद्वयमेव)। (पूर्ण वाक्य में उत्तर दीजिए-केवल दो प्रश्नों के ही। Answer in a complete sentence-only two questions.)
(i) कानि अङ्गानि मिलित्वा कार्यं त्यक्तवन्तः?
(ii) कस्य कृपया अङ्गानि शक्तियुक्तानि भवन्ति?
(iii) सर्वाणि इन्द्रियाणि मिलित्वा कि विचारम् अकुर्वन्?
उत्तराणि:
(i) शरीरस्य सर्वाणि इन्द्रियाणि-हस्तौ, पादौ, मुखं, नासिका, कौँ इत्यादीनि मिलित्वा कार्यं त्यक्तवन्तः।
(ii) उदरस्य कृपया अङ्गानि शक्तियुक्तानि भवन्ति।
(iii) मिलित्वा विचारम् अकुर्वन्-“अहो! अस्माकं प्रमादः। भुक्तस्य अन्नस्य पाचनं तु उदरमेव करोति। एतद् एव अस्मभ्यं शक्तिं ददाति। अस्य कृपया एव वयं जीवामः। अतः अस्माभिः सर्वैः अनेन सह सहयोगः करणीयः”।

प्रश्न III.
भाषिककार्यम् (केवलं प्रश्नत्रयमेव)। (भाषा संबंधी कार्य-केवल तीन प्रश्नों के ही। Work of Language only three questions.)
(i) ‘करिष्यामः’ इति क्रियापदस्य कर्तृपदं किम्?
(क) वयमपि
(ख) वयम्
(ग) कार्यम्
(घ) अद्यप्रभृति
उत्तराणि:
(ख) वयम्

(ii) ‘भुक्तस्य’ इति विशेषणस्य विशेष्यपदं किम्?
(क) अन्नस्य
(ख) कार्यस्य
(ग) अन्नकणस्य
(घ) सहयोगस्य
उत्तराणि:
(क) अन्नस्य

(iii) ‘चलौ’ इति पदस्य किं विपर्ययपदम् अत्र प्रयुक्तम्?
(क) हस्तौ
(ख) अचलौ
(ग) निश्चलौ
(घ) पादौ
उत्तराणि:
(ग) निश्चलौ

(iv) अनुच्छेदे ‘सर्वाणि अङ्गानि’ इति कर्तृपदस्य क्रियापदं किम् अस्ति?
(क) अभवन्
(ख) शिथिलानि
(ग) अतिष्ठताम्
(घ) करोति
उत्तराणि:
(क) अभवन्

प्रश्न IV.
अस्य अनुच्छेदस्य कृते समुचितं शीर्षकं लिखत। (इस अनुच्छेद के लिए समुचित शीर्षक लिखिए। Write a suitable title for this paragraph.)
उत्तराणि:
संहतिः एव कार्यसाधिका।


गद्यांश 5

एकस्य भिक्षुकस्य भिक्षापात्रे अञ्जलिपरिमिताः तण्डुलाः आसन्। सः अवदत्- “भगवन्! दयां कुरु। कथम् अनेन उदरपूर्तिः भविष्यति ।” तदैव अन्यः एक: अभिक्षुकः तत्र आगच्छति वदति च ‘भिक्षां देहि।’ क्रुद्धः प्रथमः भिक्षुकः अगर्जत्-‘रे भिक्षुक! भिक्षुकमेव भिक्षां याचसे । तव लज्जा नास्ति।” द्वितीयः भिक्षुकः उक्तवान्–“तव भिक्षापात्रे अञ्जलिपरिमिताः तण्डुलाः, मम तु पात्रं रिक्तम्। दयां कुरु।” अर्धं देहि । प्रथमः भिक्षुकः तत् न स्वीकृतवान्। द्वितीयः भिक्षुकः पुनः अवदत्- “भोः, कृपणः मा भव। केवलम् एकं तण्डुलं देहि।” प्रथमः भिक्षुकः तस्मै एकम् एव तण्डुलं ददाति। द्वितीये भिक्षुके गते सति प्रथमः भिक्षुकः भिक्षापात्रे तण्डुलाकारं स्वर्णकणं पश्यति। आश्चर्यचकितः शिरः ताडयन् सः पश्चात्तापम् अकरोत्-“धिक माम्। धिक् मम मूर्खताम्।”

प्रश्न I.
एकपदेन उत्तरत (केवलं प्रश्नद्वयमेव)। (एक पद में उत्तर दीजिए-केवल दो प्रश्नों के ही। Answer in one word only-only two questions.)
(i) कस्य भिक्षुकस्य भिक्षापात्रं रिक्तम् आसीत्?
(ii) धिक् माम्’ इति कः वदति?
(iii) तदैव अन्यः कः तत्र आगच्छति?
उत्तराणि:
(i) द्वितीयस्य
(ii) प्रथमभिक्षुकः
(iii) भिक्षुकः

प्रश्न II.
पूर्णवाक्येन उत्तरत (केवलं प्रश्नद्वयमेव)। (पूर्ण वाक्य में उत्तर दीजिए-केवल दो प्रश्नों के ही। Answer in a complete sentence only two questions.)
(i) प्रथमः भिक्षुकः स्वभिक्षापात्रे किं पश्यति?
(ii) द्वितीयः भिक्षुकः एकस्य तण्डुलस्य कृते किं ददाति?
(iii) प्रथमः भिक्षुकः किं कथयित्वा पश्चात्तापमकरोत्?
उत्तराणि:
(i) प्रथमः भिक्षुकः स्वभिक्षापात्रे तण्डुलाकारं स्वर्णकणं पश्यति।
(ii) द्वितीयः भिक्षुकः एकस्य तण्डुलस्य कृते तण्डुलाकारं स्वर्णकणं ददाति।
(iii) आश्चर्यचकितः शिरः ताडयन् सः प्रथमः भिक्षुकः पश्चात्तापम् अकरोत्-“धिक माम्। धिक् मम मूर्खताम्।”

प्रश्न III.
भाषिककार्यम् (केवलं प्रश्नत्रयमेव)। (भाषा संबंधी कार्य-केवल तीन प्रश्नों के ही। Work of Language-only three questions.)
(i) ‘क्रुद्धः’ इति कस्य विशेषणम्?
(क) प्रथमस्य भिक्षुकस्य
(ख) भिक्षुकस्य
(ग) प्रथमस्य
(घ) द्वितीयस्य भिक्षुकस्य
उत्तराणि:
(ग) प्रथमस्य भिक्षुकस्य

(ii) प्रथम भिक्षुकः तस्मै एकं तण्डुलं ददाति। अत्र ‘तस्मै’ सर्वनामपदं कस्मै प्रयुक्तम्?
(क) एकम्
(ख) तस्मै
(ग) ददाति
(घ) भिक्षुकः
उत्तराणि:
(ग) ददाति

(iii) ‘स्वीकृतवान्’ इति क्रियापदस्य कर्तृपदम् किम्?
(क) भिक्षुकः
(ख) द्वितीयः भिक्षुकः
(ग) प्रथमः
(घ) प्रथमः भिक्षुकः
उत्तराणि:
(घ) प्रथमः भिक्षुकः

(iv) अनुच्छेदे भरितम् (पूर्णम्) अस्य पदस्य कः विपर्ययः आगतः?
(क) अपूर्णम्
(ख) रिक्तम्
(ग) पात्रम्
(घ) मम
उत्तराणि:
(ख) रिक्तम्

प्रश्न IV.
अस्य अनुच्छेदस्य कृते समुचितं शीर्षकं लिखत। (इस अनुच्छेद के लिए समुचित शीर्षक लिखिए। Write a suitable title for this paragraph.)
उत्तराणि:
लोभः पापस्य कारणम्।


गद्यांश 6

एकस्मिन् वने एकः विशाल: वृक्षः आसीत् । तस्मिन् बहवः खगाः वसन्ति स्म। एकदा ते अतीव बुभुक्षिताः आसन्। अतः भोजनं खादितुम् इतस्ततः भ्रमन्ति स्म। ते दूर-दूरं गच्छन्ति स्म। अन्ते च एकस्मिन् क्षेत्रे तण्डुलकणान् अपश्यन्। ते तत्र गत्वा प्रसन्नतया तण्डुलान् खादन्ति स्म परन्तु जालेन बद्धाः अभवन्। ‘अधुना किं करणीयम्’ इति चिन्तयित्वा ते सर्वे जालेन सह एव एकं स्वमित्रम् उपागच्छन्। तेषां मित्रम् एकः मूषकः आसीत्। सः जालं दन्तैः अकर्तयत्। अन्ते सर्वे स्वतन्त्राः भूत्वा अनृत्यन् अगायन् च-सुखं तु एकतायाम् एव विद्यते।

प्रश्न I.
एकपदेन उत्तरत (केवलं प्रश्नद्वयमेव)। (एक पद में उत्तर दीजिए-केवल दो प्रश्नों के ही। Answer in one word only-only two questions.)
(i) विशालवृक्षे के वसन्ति स्म?
(ii) सुखं कुत्र विद्यते?
(ii) खगाः एकस्मिन् क्षेत्रे कान् अपश्यन्?
उत्तराणि:
(i) खगाः
(ii) एकतायाम्
(iii) तण्डुलकणान्

प्रश्न II.
पूर्णवाक्येन उत्तरत (केवलं प्रश्नद्वयमेव)। (पूर्ण वाक्य में उत्तर दीजिए-केवल दो प्रश्नों के ही। Answer in a complete sentence only two questions.)
(i) खगाः भोजनाय कुत्र भ्रमन्ति स्म?
(ii) मूषकः किम् अकरोत्?
(iii) अन्ते सर्वे किम् अगायन्?
उत्तराणि:
(i) खगाः भोजनाय इतस्ततः भ्रमन्ति स्म।
(ii) मूषकः जालं दन्तैः अकर्तयत्।
(iii) अन्ते सर्वे स्वतन्त्राः भूत्वा अनृत्यन्-अगायन् च-सुखं तु एकतायाम् एव विद्यते।

प्रश्न III.
भाषिककार्यम् (केवलं प्रश्नत्रयमेव)। (भाषा संबंधी कार्य-केवल तीन प्रश्नों के ही। Work of Language-only three questions.)
(i) अस्मिन् गद्यांशे ‘वृक्षः’ किं विशेषणपदं प्रयुक्तम्?
(क) वने
(ख) विशाल:
(ग) एकः
(घ) सः
उत्तराणि:
(ख) विशालः

(ii) अस्मिन् गद्यांशे ‘खादन्ति स्म’ इति क्रियापदस्य कतृपदं किम्?
(क) ते
(ख) मूषकाः
(ग) बहवः
(घ) खगाः
उत्तराणि:
(ख) खगाः

(iii) ‘मुक्ताः’ इति पदस्य अत्र किं विपर्ययपदं प्रयुक्तम्?
(क) स्वतन्त्रताः
(ख) बहवः
(ग) बुभुक्षिताः
(घ) बद्धाः
उत्तराणि:
(घ) बद्धाः

(iv) अनुच्छेदे ‘ते सर्वे’ इति कर्तृपदस्य क्रियापदं किम्?
(क) स्वतन्त्रताः
(ख) वसन्ति स्म
(ग) आसन्
(घ) उपागच्छन्
उत्तराणि:
(घ) उपागच्छन्

प्रश्न IV.
अस्य अनुच्छेदस्य कृते समुचितं शीर्षकं लिखत। (इस अनुच्छेद के लिए समुचित शीर्षक लिखिए। Write a suitable title for this paragraph.)
उत्तराणि:
‘एकतायाम् सुखम्’ अथवा खगाः मूषकः च “सुखं तु एकतायाम् एव विद्यते।”


गद्यांश 7

अस्माकं विद्यालयः राजकीयः विद्यालयः अस्ति। अत्र पठनस्य तु श्रेष्ठा व्यवस्था अस्ति एव, युगपदेव क्रीडानामपि सुलभा व्यवस्था अस्ति। अतएव अस्माकं विद्यालयस्य सर्वासां कक्षाणां परिणाम: शतप्रतिशतं भवति। क्रीडानां प्रतियोगितासु अपि अस्माकं विद्यालयस्य छात्राः बहुन् पुरस्कारान् अलभन्त। अस्माकं विद्यालयस्य वार्षिकोत्सवः परह्यः सम्पन्नो जातः। तदा अस्माकं राज्यस्य राज्यपाल: मुख्यातिथिः आसीत्। यदैव मुख्यातिथि: द्वारं सम्प्राप्तः छात्रा: वाद्ययन्त्राणां ध्वनिना तस्य स्वागतमाचरन्। ततः सः मञ्चस्य सम्मुखे आसनं भूषितवान्।

प्रश्न I.
एकपदेन उत्तरत (केवलं प्रश्नद्वयमेव)। (एक पद में उत्तर दीजिए-केवल दो प्रश्नों के ही। Answer in one word only-only two questions.)
(i) अस्माकं विद्यालयः कीदृशः अस्ति?
(ii) परीक्षापरिणामः कीदृशः अस्ति?
(iii) परह्यः विद्यालये कः सम्पन्न जातः?
उत्तराणि:
(i) राजकीयः
(ii) शतप्रतिशतं
(iii) वार्षिकोत्सवः

प्रश्न II.
पूर्णवाक्येन उत्तरत (केवलं प्रश्नद्वयमेव)। (पूर्ण वाक्य में उत्तर दीजिए-केवल दो प्रश्नों के ही। Answer in a complete sentence-only two questions.)
(i) वार्षिकोत्सवे मुख्यातिथिः कः आसीत्?
(ii) मुख्यातिथौ आगते छात्राः किम् अकुर्वन्?
(iii) अत्र पठनस्य कीदृशी व्यवस्था अस्ति?
उत्तराणि:
(i) वार्षिकोत्सवे राज्यस्य राज्यपाल: मुख्यातिथिः आसीत्।
(ii) मुख्यातिथौ आगते छात्रा: वाद्ययन्त्राणां ध्वनिना तस्य स्वागतम् आचरन् (अकुर्वन्)।
(iii) अत्र पठनस्य तु श्रेष्ठा व्यवस्था अस्ति।

प्रश्न III.
भाषिककार्यम् (केवलं प्रश्नत्रयमेव)। (भाषा संबंधी कार्य-केवल तीन प्रश्नों के ही। Work of Language only three questions.)
(i) ‘व्यवस्था’ इति पदस्य किं विशेषणम्?
(क) युगपत्
(ख) युगपदेव
(ग) श्रेष्ठा
(घ) क्रीडानाम्
उत्तराणि:
(ग) श्रेष्ठा

(ii) ‘जातः’ इत्यस्य विलोमपदं किम्?
(क) अस्ति
(ख) भवति
(ग) आसीत्
(घ) आचरन्
उत्तराणि:
(ख) भवति

(iii) अस्मिन् गद्यांशे ‘आचरन्’ इति क्रियायाः कर्तृपदं किम्?
(क) मुख्यातिथि:
(ख) स्वागतम्
(ग) छात्राः
(घ) तस्य
उत्तराणि:
(ग) छात्राः

(iv) अनुच्छेदे ‘छात्राः’ इति कर्तृपदस्य क्रियापदं किम्?
(क) अलभन्त
(ख) भूषितवान्
(ग) अस्ति
(घ) भवति
उत्तराणि:
(क) अलभन्त

प्रश्न IV.
अस्य अनुच्छेदस्य कृते समुचितं शीर्षकं लिखत। (इस अनुच्छेद के लिए समुचित शीर्षक लिखिए। Write a suitable title for this paragraph.)
उत्तराणि:
“अस्माकं विद्यालयः” अथवा “विद्यालयस्य वार्षिकोत्सवः।।”


NCERT Solutions for Class 10 Sanskrit Shemushi: Detailed, Step-by-Step NCERT Solutions for Class 10 Sanskrit Shemushi शेमुषी भाग 2 Text Book Questions and Answers solved by Expert Teachers as per NCERT (CBSE) Book guidelines. Download Now.

Sanskrit Class 10 NCERT Solutions | Shemushi संस्कृत कक्षा 10 समाधान

Shemushi Sanskrit Class 10 Solutions

Here is the list of Class 10 Sanskrit Chapters.

  1. NCERT Solutions for Class 10 Sanskrit Chapter 1 शुचिपर्यावरणम्
  2. Shemushi Sanskrit Class 10 Solutions Chapter 2 बुद्धिर्बलवती सदा
  3. Sanskrit Class 10 NCERT Solutions Chapter 3 व्यायामः सर्वदा पथ्यः
  4. Class 10 Sanskrit Solutions Chapter 4 शिशुलालनम्
  5. Class 10th Sanskrit Book Solutions Chapter 5 जननी तुल्यवत्सला
  6. 10th Class Sanskrit Book Solution Chapter 6 सुभाषितानि
  7. Shemushi Sanskrit Class 10 Solutions Chapter 7 सौहार्दं प्रकृतेः शोभा
  8. NCERT Class 10 Sanskrit Solutions Chapter 8 विचित्रः साक्षी
  9. Shemushi Class 10 Solutions Chapter 9 सूक्तयः
  10. Shemushi संस्कृत कक्षा 10 समाधान Chapter 10 भूकंपविभीषिका
  11. शेमुषी संस्कृत Class 10 Solutions Chapter 11 प्राणेभ्योऽपि प्रियः सुह्रद्
  12. शेमुषी भाग 2 Solutions Chapter 12 अनयोक्त्यः

Abhyasvan Bhav Sanskrit Class 10 Solutions

Abhyasvan Bhav Sanskrit Class 10 Solutions अभ्यासवान् भव भाग 2

NCERT Class 10 Sanskrit Grammar Book Solutions

Sanskrit Class 10 Grammar | Sanskrit Grammar Book for Class 10 CBSE Pdf

खण्डः ‘क’ (अपठित-अवबोधनम्)

खण्डः ‘ख’ (रचनात्मक कार्यम्)

खण्डः ‘ग’ (अनुप्रयुक्त-व्याकरणम्)


NCERT Solutions for Class 10

कक्षा 10 के संस्कृत के लिए सीबीएसई एनसीईआरटी समाधान छात्रों को आत्मविश्वास के साथ सीबीएसई कक्षा 10 वीं परीक्षा करने के लिए पर्याप्त अभ्यास प्राप्त करने में मदद करेगा।


Post a Comment

इस पेज / वेबसाइट की त्रुटियों / गलतियों को यहाँ दर्ज कीजिये
(Errors/mistakes on this page/website enter here)

Previous Post Next Post