MCQ Questions for Class 10 Sanskrit Chapter 7 सौहार्दं प्रकृतेः शोभा with Answers

MCQ Questions for Class 10 Sanskrit Chapter 7 सौहार्दं प्रकृतेः शोभा with Answers 

MCQ Questions for Class10 Sanskrit Chapter 7 सौहार्दं प्रकृतेः शोभा

सौहार्दं प्रकृतेः शोभा Class 10 Sanskrit MCQs Questions with Answers

Check the below NCERT MCQ Questions for Class 10 Sanskrit Chapter 7 सौहार्दं प्रकृतेः शोभा with Answers Pdf free download. MCQ Questions for Class 10 Sanskrit with Answers were prepared based on the latest exam pattern. We have Provided सौहार्दं प्रकृतेः शोभा Class 10 Sanskrit MCQs Questions with Answers to help students understand the concept very well.

Class 10 Sanskrit Chapter 7 Quiz

Class 10 Sanskrit Chapter 7 MCQ Online Test


You can refer to NCERT Solutions for Class 10 Sanskrit Chapter 7 सौहार्दं प्रकृतेः शोभा to revise the concepts in the syllabus effectively and improve your chances of securing high marks in your board exams.

सौहार्दं प्रकृतेः शोभा Class 10 Sanskrit MCQ online test

कक्षा 10 वी के संस्कृत के बहुविकल्पीय प्रश्न उत्तर सहित

कक्षा 10 वी संस्कृत अध्याय 7 सौहार्दं प्रकृतेः शोभा के बहुविकल्पीय प्रश्न उत्तर सहित

Q1.

अधोलिखितान् नाट्यांशान् श्लोकान् च पठित्वा प्रश्नानाम् उत्तराणि लिखत

वनस्य दृश्यम् समीपे एवैका नदी वहति। एकः सिंहः सुखेन विश्राम्यते तदैव एकः वानरः आगत्य तस्य पुच्छं धुनोति। क्रुद्धः सिंहः तं प्रहर्तुमिच्छति परं वानरस्तु कूर्दित्वा वृक्षमारूढः। तदैव अन्यस्मात् वृक्षात् अपरः वानरः सिंहस्य कर्णमाकृष्य पुनः वृक्षोपरि आरोहति एवमेव वानराः वारं वारं सिंह तुदन्ति। क्रुद्धः सिंहः इतस्ततः धावति, गर्जति परं किमपि कर्तुमसमर्थः एव तिष्ठति। वानराः हसन्ति वृक्षोपरि च विविधाः पक्षिणः अपि सिंहस्य एतादृशीं दशां दृष्ट्वा हर्षमिश्रितं कलरवं कुर्वन्ति।

Question -
‘वहति’ इति क्रियापदस्य कर्तृपदं किम्?

A.एका
B.नदी
C.वनस्य
D.दृश्यम्
Ans: नदी
Q2. ‘सिंहः तम् प्रह….।’ अस्मिन् वाक्ये ‘तम्’ सर्वनामपदं कस्मै प्रयुक्तम्?
A.वानरः
B.वानराय
C.वृक्षाय
D.सिंहाय
Ans: वानराय
Q3. ‘वृक्षात्’ इति पदस्य विशेषणपदं किम्?
A.अन्यस्मात्
B.अपर:
C.एका
D.विविधाः
Ans: अन्यस्मात्
Q4. ‘खगाः’ इत्यर्थे किं पदं प्रयुक्तम्?
A.क्रुद्धः
B.पक्षिणः
C.सिंहः
D.एवैका
Ans: पक्षिणः
Q5.

काकः – अरे! अरे! किं जल्पसि? यदि अहं कृष्णवर्णः तर्हि त्वं कि गौरागः? अपि च विस्मर्यते किं यत् मम सत्यप्रियता तु जनानां कृते उदाहरणस्वरूपा-‘अनृतं वदसि चेत् काकः दशेत्’-इति प्रकारेण। अस्माकं परिश्रमः ऐक्यं च विश्वप्रथितम्। अपि च काकचेष्टः विद्यार्थी एव आदर्शच्छात्रः मन्यते।
पिकः – अलम् अलम् अतिविकत्थनेन। किं विस्मयते यत् काकः कृष्णः पिकः कृष्णः को भेदः पिककाकयोः। वसन्तसमये प्राप्ते काकः काकः पिकः पिकः॥

Question -
‘सत्यं’ इति पदस्य विपरीतार्थकं पदं किम्?

A.अनृतं
B.प्रथितम्
C.ऐक्यं
D.अलम्
Ans: अनृतं
Q6. ‘ऐक्यं’ इति पदस्य कः अर्थः?
A.काकः
B.कृष्ण
C.वर्णः
D.एकता
Ans: एकता
Q7. ‘त्वं किं गौराङ्गः?’ अस्मिन् वाक्ये ‘त्वं’ इति सर्वनामपदं कस्मै प्रयुक्तम्?
A.काकाय
B.काकः
C.पिकाय
D.पिकस्य
Ans: पिकाय
Q8. ‘दशेत्’ इति क्रियापदस्य कर्तृपदं किम्?
A.काकः
B.चेत्
C.अनृतं
D.पिकः
Ans: काकः
Q9.

काकः – रे परभृत! अहं यदि तव संततिं न पालयामि तर्हि कुत्र स्युः पिकाः? अतः अहम् एव करुणापरः पक्षिसम्राट् काकः।
गजः – समीपतः एवागच्छन् अरे! अरे! सर्वं सम्भाषण शृण्वन्नेवाहम् अत्रागच्छम्। अहं विशालकायः, बलशाली, पराक्रमी च। सिंहः वा स्यात् अथवा अन्यः कोऽपि, वन्यपशून् तु तुदन्तं जन्तुमहं स्वशुण्डेन पोथयित्वा मारयिष्यामि। किमन्यः कोऽप्यस्ति एतादृशः पराक्रमी। अतः अहमेव योग्यः वनराजपदाय।
वानरः – अरे! अरे! एवं वा (शीघ्रमेव गजस्यापि पुच्छं विधूय वृक्षोपरि आरोहति।)

Question -
‘अगच्छम्’ इति क्रियापदस्य कर्तृपदं किम्?

A.सर्वा
B.वार्ता
C.अहम्
D.गजः
Ans: अहम्
Q10. ‘अहम् एव करुणापरः…….।’ अस्मिन् वाक्ये अहम् सर्वनामपदं कस्मै प्रयुक्तम्?
A.काकाय
B.गजाय
C.वानराय
D.काकस्य
Ans: गजाय
Q11. ‘आकर्ण्य’ इत्यर्थे किम् पदं प्रयुक्तम्?
A.योग्यः
B.परभृत्
C.शुण्डेन
D.विधूय
Ans: विधूय
Q12. ‘तुदन्तं’ इति पदस्य विशेष्यपदं किम्?
A.वन्यपशून्
B.जन्तुम्
C.जन्तुमहं
D.शुण्डेन
Ans: वन्यपशून्
Q13.

(गजः तं वक्षमेव स्वशुण्डेन आलोडयितुमिच्छति परं वानरस्तु कुर्दित्वा अन्यं वृक्षमारोहति। एवं गजं वृक्षात् वृक्षं प्रति धावन्तं दृष्ट्वा सिंहः अपि हसति वदति च।)
सिंहः – भोः गज! मामप्येवमेवातुदन् एते वानराः।
वानरः – एतस्मादेव तु कथयामि यदहमेव योग्यः वनराजपदाय येन विशालकायं पराक्रमिणं, भयंकरं चापि सिंह गजं वा पराजेतुं समर्था अस्माकं जातिः। अतः वन्यजन्तूनां रक्षायै वयमेव क्षमाः।
(एतत्सर्वं श्रुत्वा नदीमध्यस्थितः एकः बक:)

Question -
‘इच्छति’ इति क्रियापदस्य कर्तृपदं किम्?

A.गजः
B.वृक्षम्
C.वानरः
D.सिंहः
Ans: गजः
Q14. ‘वयमेव’ अत्र ‘वयम्’ सर्वनामपदं काभ्याम् प्रयुक्तम्?
A.वानराभ्याम्
B.वानराय
C.सिंहाय
D.गजाय
Ans: वानराभ्याम्
Q15. ‘करी’ इति पदस्य पर्याय पदं किम्?
A.सिंहः
B.गजः
C.वानरः
D.बकः
Ans: गजः
Q16. ‘एते’ इति पदस्य विशेष्यपदं किम्?
A.गजः
B.माम्
C.वानराः
D.सिंहः
Ans: वानराः
Q17.

को न जानाति तव ध्यानावस्थाम्। “स्थितप्रज्ञ’ इति व्याजेन वराकान् मीनान् छलेन अधिगृह्य क्रूरतया भक्षयसि। धिक् त्वाम्। तव कारणात् तु सर्वं पक्षिकुलमेवावमानितं जातम्।
वानरः – (सगर्वम्) अतएव कथयामि यत् अहमेव योग्यः वनराजपदाय। शीघ्रमेव मम राज्याभिषेकाय तत्पराः भवन्तु सर्वे वन्यजीवाः।
मयूरः – अरे वानर! तूष्णीं भव। कथं त्वं योग्यः वनराजपदाय? पश्यतु पश्यतु मम शिरसि राजमुकुटमिव शिखां स्थापयता विधात्रा एवाहं पक्षिराजः कृतः अतः वने निवसन्तं मां वनराजरूपेणापि द्रष्टुं सज्जाः भवन्तु अधुना यतः कथं कोऽप्यन्यः विधातुः निर्णयम् अन्यथाकर्तुं क्षमः।

Question -
‘अहमेव योग्यः …….।’ अत्र ‘अहम्’ सर्वनामपदं कस्मै प्रयुक्तम्?

A.वानराय
B.वानरस्य
C.मयूराय
D.वकाय
Ans: वानराय
Q18. ‘भवन्तु’ इति क्रियापदस्य कर्तृपदं किम्?
A.मम
B.तत्पराः
C.वन्यजीवाः
D.अभिषेकाय
Ans: वन्यजीवाः
Q19. ‘मीनान्’ इति विशेष्य पदस्य विशेषणपदं किम्?
A.वराकान्
B.व्याजेन
C.छलेन
D.क्रूरतया
Ans: वराकान्
Q20. ‘अरण्ये’ इत्यर्थे किम् पदं प्रयुक्तम्?
A.निवसन्तं
B.विधात्रा
C.सज्जाः
D.वने
Ans: वने

MCQ Questions for Class 10 Sanskrit



Post a Comment

इस पेज / वेबसाइट की त्रुटियों / गलतियों को यहाँ दर्ज कीजिये
(Errors/mistakes on this page/website enter here)

Previous Post Next Post