MCQ Questions for Class 10 Sanskrit Grammer (Vyakaran) अपठित-अवबोधनम् भाग-2 with Answers

MCQ Questions for Class 10 Sanskrit Grammer (Vyakaran) अपठित-अवबोधनम् भाग-2 with Answers 

MCQ Questions for Class10 Sanskrit Grammer (Vyakaran) अपठित-अवबोधनम् भाग-2

अपठित-अवबोधनम् भाग-2 Class 10 Sanskrit MCQs Questions with Answers

Check the below NCERT MCQ Questions for Class 10 Sanskrit Grammer (Vyakaran) अपठित-अवबोधनम् भाग-2 with Answers Pdf free download. MCQ Questions for Class 10 Sanskrit with Answers were prepared based on the latest exam pattern. We have Provided अपठित-अवबोधनम् भाग-2 Class 10 Sanskrit MCQs Questions with Answers to help students understand the concept very well.

Class 10 Sanskrit Grammer (Vyakaran) Quiz

Class 10 Sanskrit Grammer (Vyakaran) MCQ Online Test


You can refer to NCERT Solutions for Class 10 Sanskrit Grammer (Vyakaran) अपठित-अवबोधनम् भाग-2 to revise the concepts in the syllabus effectively and improve your chances of securing high marks in your board exams.

अपठित-अवबोधनम् भाग-2 Class 10 Sanskrit MCQ online test

कक्षा 10 वी के संस्कृत व्याकरण के बहुविकल्पीय प्रश्न उत्तर सहित

कक्षा 10 वी संस्कृत व्याकरण अध्याय (Vyakaran) अपठित-अवबोधनम् भाग-2 के बहुविकल्पीय प्रश्न उत्तर सहित

Q1.

षट् कारणानि श्रियं विनाशयन्ति। प्रथमं कारणमस्ति असत्यम्। यः नरः असत्यं वदति, तस्य कोऽपि जनः विश्वासं न करोति। उक्तञ्च–’सत्यं ब्रूयात्, प्रियं ब्रूयात्, न ब्रूयात् सत्यमप्रियम्।’ निष्ठुरता अस्ति द्वितीयं कारणम्। कदापि केनापि सह निष्ठुरता (निर्दयता) न उचिता। सदैव जगति सर्वैः सह करुणा, दया नम्रता च करणीयाः। तृतीयं कारणम् अस्ति कृतघ्नता। जीवने अनेके जनाः अस्मान् उपकुर्वन्ति। प्रायः जनाः उपकारिणं विस्मरन्ति, प्रत्युपकारं न कुर्वन्ति। एतादृशः स्वभावः कृतघ्नता इति उच्यते। आलस्यम् अपरः महान् दोषः, ‘आलस्यं हि मनुष्याणां शरीरस्थः महारिपुः’। अहङ्कारः मनुष्यस्य मतिं नाशयति। अहङ्कारी मनुष्यः सर्वदा आत्मप्रशंसाम् एव करोति। न कदापि कस्यचित् उपकारं करोति। व्यसनानि अपि श्रियं हरन्ति। ये मद्यपानं कुर्वन्ति तेषाम् आत्मिकबलम्, बुद्धिबलं शारीरिकबलं च नश्यन्ति। अतः बुद्धिमान् एतान् दोषान् सर्वथा त्यजेत्।

Question -
‘नाशयति’ इति क्रियापदस्य कर्तृपदं किम्?

A.अहङ्कारः
B.गर्वम्
C.धनम्
D.बलम्
Ans: अहङ्कारः
Q2. स्मरन्ति’ इति क्रियापदस्य किं विपर्ययपदम् अत्र प्रयुक्तम्?
A.उपकुर्वन्ति
B.अनुस्मरन्ति
C.विस्मरन्ति
D.कुर्वन्ति
Ans: विस्मरन्ति
Q3. ‘षट्’ इति पदं कस्य विशेषणम्?
A.कारणस्य
B.कारणाम्
C.अहङ्कारस्य
D.श्रियस्य
Ans: कारणस्य
Q4. अनुच्छेदे ‘बुद्धिम्’ इति पदस्य कः पर्यायः आगतः?
A.मतिम्
B.कृतज्ञेता
C.निष्ठुरता
D.विषम्
Ans: मतिम्
Q5.

एकदा शरीरस्य सर्वाणि इन्द्रियाणि-हस्तौ, पादौ, मुखं, नासिका, कर्णी इत्यादीनि मिलित्वा अचिन्तयन्-“वयं सर्वे प्रतिदिनं परिश्रमं कुर्मः। एतद् उदरं सर्वं स्वीकरोति, स्वयं किमपि कार्यं न करोति। अद्यप्रभृति वयमपि कार्यं न करिष्यामः”। एवं चिन्तयित्वा सर्वाणि अङ्गानि कार्यम् अत्यजन्। पादौ स्थिरौ भूत्वा अतिष्ठताम्। हस्तौ निश्चलौ अभवताम्। मुखं अन्नकणम् अपि न प्रावेशयत् एवं द्वे दिने व्यतीते जाते। शनैः शनैः सर्वाणि अङ्गानि शिथिलानि अभवन्। कार्यशक्तिः क्षीणा अभवत्। कथमपि पुनः मिलित्वा विचारम् अकुर्वन् “अहो! अस्माकं प्रमादः। भुक्तस्य अन्नस्य पाचनं तु उदरमेव करोति। एतद् एव अस्मभ्यं शक्तिं ददाति। अस्य कृपया एव वयं जीवामः। अतः अस्माभिः सर्वैः अनेन सह सहयोगः करणीयः”। नूनं संहतिः एव कार्यसाधिका।

Question -
‘करिष्यामः’ इति क्रियापदस्य कर्तृपदं किम्?

A.वयमपि
B.वयम्
C.कार्यम्
D.अद्यप्रभृति
Ans: वयम्
Q6. ‘भुक्तस्य’ इति विशेषणस्य विशेष्यपदं किम्?
A.अन्नस्य
B.कार्यस्य
C.अन्नकणस्य
D.सहयोगस्य
Ans: अन्नस्य
Q7. ‘चलौ’ इति पदस्य किं विपर्ययपदम् अत्र प्रयुक्तम्?
A.हस्तौ
B.अचलौ
C.निश्चलौ
D.पादौ
Ans: निश्चलौ
Q8. अनुच्छेदे ‘सर्वाणि अङ्गानि’ इति कर्तृपदस्य क्रियापदं किम् अस्ति?
A.अभवन्
B.शिथिलानि
C.अतिष्ठताम्
D.करोति
Ans: अभवन्
Q9.

चीनदेशस्य प्रख्यातः दार्शनिकः ‘हू लाई’ प्रतिदिनं प्रातः पर्वते अभ्रमत्। मार्गे तस्य मित्रम् अमिलत् यः तं प्राणमत् परं स दार्शनिक: तस्य उत्तरम् अर्धहोराऽनन्तरमददात् यतः स विचारेषु मग्नः अभवत्। एकदा मित्रस्य एको बन्धुः तेन सह आसीत्। सः स्वभावत: दार्शनिकमनमत् अग्रे च गत्वा अवदत्। “अहो कीदृशं शोभनमस्ति प्रभातम्, कीदृशानि मनोमोहकानि सन्ति दृश्यानि अत्र।” दार्शनिक: स्वमित्रं तस्य बन्धुं च सक्रोधमपश्यत्। यथैव दिने दार्शनिकमित्रं तस्य गृहं प्राप्तः तु दार्शनिक: अकथयत्–’तव बन्धुः तु अधिकमेव वदति, पुनः एनं मम गृहे मा आनय। एषः सर्वान् दर्शयति एतानि सुन्दराणि दृश्यानि।’

Question -
‘दृश्यानि’ अस्य किं विशेषणम् अनुच्छेदे आगतम्?

A.सुन्दराणि
B.एतानि
C.सुन्दरम्
D.एतत्
Ans: सुन्दराणि
Q10. ‘अवदत्’ अस्याः क्रियायाः कर्तृपदं किम्?
A.स्वभावतः
B.दार्शनिकम्
C.अग्रे
D.सः
Ans: सः
Q11. अनुच्छेदे ‘असुन्दराणि’ अस्य विपर्ययपदं किम्?
A.मनोमोहकानि
B.मोहकानि
C.सुन्दराणि
D.उत्तमानि
Ans: सुन्दराणि
Q12. अनुच्छेदे ‘दार्शनिकः’ इति कर्तृपदस्य क्रियापदं किम्?
A.अकथयत्
B.आनय
C.अवदत्
D.अमिलत्
Ans: अकथयत्।
Q13.

एकस्य भिक्षुकस्य भिक्षापात्रे अञ्जलिपरिमिताः तण्डुलाः आसन्। सः अवदत्- “भगवन् ! दयां कुरु। कथम् अनेन उदरपूर्तिः भविष्यति।” तदैव अन्यः एक: अभिक्षुकः तत्र आगच्छति वदति च ‘भिक्षां देहि।’ क्रुद्धः प्रथमः भिक्षुकः अगर्जत्-‘रे भिक्षुक! भिक्षुकमेव भिक्षां याचसे। तव लज्जा नास्ति।” द्वितीयः भिक्षुकः उक्तवान्–“तव भिक्षापात्रे अञ्जलिपरिमिताः तण्डुलाः, मम तु पात्रं रिक्तम्। दयां कुरु।” अर्धं देहि। प्रथमः भिक्षुकः तत् न स्वीकृतवान्। द्वितीयः भिक्षुकः पुनः अवदत्- “भोः, कृपणः मा भव। केवलम् एकं तण्डुलं देहि।” प्रथमः भिक्षुकः तस्मै एकम् एव तण्डुलं ददाति। द्वितीये भिक्षुके गते सति प्रथमः भिक्षुकः भिक्षापात्रे तण्डुलाकारं स्वर्णकणं पश्यति। आश्चर्यचकितः शिरः ताडयन् सः पश्चात्तापम् अकरोत्-“धिक माम्। धिक् मम मूर्खताम्।”

Question -
‘क्रुद्धः’ इति कस्य विशेषणम्?

A.प्रथमस्य भिक्षुकस्य
B.भिक्षुकस्य
C.प्रथमस्य
D.द्वितीयस्य भिक्षुकस्य
Ans: प्रथमस्य भिक्षुकस्य
Q14. प्रथम भिक्षुकः तस्मै एकं तण्डुलं ददाति। अत्र ‘तस्मै’ सर्वनामपदं कस्मै प्रयुक्तम्?
A.एकम्
B.तस्मै
C.ददाति
D.भिक्षुकः
Ans: ददाति
Q15. ‘स्वीकृतवान्’ इति क्रियापदस्य कर्तृपदम् किम्?
A.भिक्षुकः
B.द्वितीयः भिक्षुकः
C.प्रथमः
D.प्रथमः भिक्षुकः
Ans: प्रथमः भिक्षुकः
Q16. अनुच्छेदे भरितम् (पूर्णम्) अस्य पदस्य कः विपर्ययः आगतः?
A.अपूर्णम्
B.रिक्तम्
C.पात्रम्
D.मम
Ans: रिक्तम्
Q17.

एकदा एकः कर्तव्यपरायणः नगररक्षकः इतस्ततः भ्रमन् एकम् अशीतिवर्षीयं महापुरुषम् अपश्यत्। सः आम्रवृक्षस्य आरोपणे तल्लीनः आसीत् । इदं दृष्ट्वा नगररक्षकः तं महापुरुषम् अवदत्-अवलोकनेन प्रतीयते यत् यदा एषः वृक्षः फलिष्यति तदा भवान् जीवितः न भविष्यति। अतः किमर्थं वृथा परिश्रमं कुर्वन्ति भवन्तः? महापुरुषः हसित्वा अवदत्-पश्यन्तु एतान् फलयुक्तान् वृक्षान्। एतेषाम् आरोपणं मया न कृतं परं फलानि अहं खादित्वा सन्तुष्टः भवामि। अतः यदा मम आरोपितस्य वृक्षस्य फलानि अन्ये खादिष्यन्ति, अहं पुनः प्रसन्नः भविष्यामि। महापुरुषस्य वचनं श्रुत्वा तं स नमस्कृत्य नगररक्षकः उक्तवान्-अनुकरणीया एव सज्जनानां सज्जनता।

Question -
‘नगररक्षकः’ इति पदस्य विशेषणपदं किम् अस्ति?

A.एकदा
B.एकः
C.कर्तव्यपरायणः
D.परायणः
Ans: कर्तव्यपरायणः
Q18. ‘दुर्जनानाम्’ इति पदस्य क: विपर्ययः?
A.सज्जनानाम्
B.महापुरुषणाम्
C.जनानाम्
D.सज्जननाम्
Ans: सज्जनानाम्
Q19. अस्मिन् गद्यांशे भविष्यामि’ इति क्रियापदस्य कर्तृपदं किम्?
A.पुनः
B.प्रसन्नः
C.सन्तुष्टः
D.अहम् ङ्के
Ans: अहम्
Q20. अनुच्छेद दर्शनेम’ इति पदस्थ का पर्यायः लिखितः?
A.प्रतीयते
B.अन्ये
C.अवलोकनेन
D.आरोपणे
Ans: अवलोकनेन

MCQ Questions for Class 10 Sanskrit



Post a Comment

इस पेज / वेबसाइट की त्रुटियों / गलतियों को यहाँ दर्ज कीजिये
(Errors/mistakes on this page/website enter here)

Previous Post Next Post