MCQ Questions for Class 10 Sanskrit Grammer (Vyakaran) अपठित-अवबोधनम् भाग-1 with Answers

MCQ Questions for Class 10 Sanskrit Grammer (Vyakaran) अपठित-अवबोधनम् भाग-1 with Answers 

MCQ Questions for Class10 Sanskrit Grammer (Vyakaran) अपठित-अवबोधनम् भाग-1

अपठित-अवबोधनम् भाग-1 Class 10 Sanskrit MCQs Questions with Answers

Check the below NCERT MCQ Questions for Class 10 Sanskrit Grammer (Vyakaran) अपठित-अवबोधनम् भाग-1 with Answers Pdf free download. MCQ Questions for Class 10 Sanskrit with Answers were prepared based on the latest exam pattern. We have Provided अपठित-अवबोधनम् भाग-1 Class 10 Sanskrit MCQs Questions with Answers to help students understand the concept very well.

Class 10 Sanskrit Grammer (Vyakaran) Quiz

Class 10 Sanskrit Grammer (Vyakaran) MCQ Online Test


You can refer to NCERT Solutions for Class 10 Sanskrit Grammer (Vyakaran) अपठित-अवबोधनम् भाग-1 to revise the concepts in the syllabus effectively and improve your chances of securing high marks in your board exams.

अपठित-अवबोधनम् भाग-1 Class 10 Sanskrit MCQ online test

कक्षा 10 वी के संस्कृत व्याकरण के बहुविकल्पीय प्रश्न उत्तर सहित

कक्षा 10 वी संस्कृत व्याकरण अध्याय (Vyakaran) अपठित-अवबोधनम् भाग-1 के बहुविकल्पीय प्रश्न उत्तर सहित

Q1.

निम्नलिखित गद्यांशों पर आधारित प्रश्नोत्तरों को ध्यान से पढ़िए।

दीपावली प्राचीनतमं पर्व। अस्मिन् दिने सर्वाधिकम् आकर्षकं मनोरञ्जञ्च भवति स्फोटकानाम् आस्फोटनम्। विचित्राणि वर्णयुक्तानि स्फोटकानि आकाशे भूमौ च विविधरूपाणि दर्शयन्ति। जनाः तानि दृष्ट्वा तुष्यन्ति। परन्तु अति सर्वत्र वर्जयेत्। रात्रौ आस्फोटकानां शब्दः कर्णौ बधिरीकरोति वायुमण्डलं च दूषयति। पूर्वं जनसंख्या सीमिता आसीत्। वृक्षाः वायुं शुद्धं कुर्वन्ति स्म। इदानीम् जनसंख्या प्रवृद्धा, वृक्षसंख्या क्षीणा। विस्फोटकेभ्यः निर्गतः धूमः रुग्णान् पीडयति, नवजातशिशुभ्यः हानिकरः सिध्यति। दीपावली-समये शरदि आकाशः निर्मलः भवति। सर्वत्र पवित्रता विराजते। अतः वयम् आनन्देन दीपावलीम् मानयेम, वसुन्धरां भूषितां कुर्याम न तु दूषिताम्। सर्वेषां जीवन सुखमयं भवेत्। किं तेन उत्सवेन यः कस्मैचित् अपि कष्टकर: भवेत्? ‘मा कश्चिद् दुःखभाग भवेत्’ इति अस्माकम् आदर्शः।

Question -
‘प्रवृद्धा’ इत्यस्य किं विलोमपदम् अत्र प्रयुक्तम्?

A.सीमिता
B.निर्गतः
C.क्षीणा
D.पवित्रता
Ans: क्षीणा
Q2. ‘पर्व’ इत्यस्य किं विशेषणम् अत्र प्रयुक्तम्?
A.प्राचीनतमम्
B.आकर्षकम्
C.मनोहरम्
D.शुद्धम्
Ans: प्राचीनतमम्
Q3. ‘लाभकरः’ इत्यस्य किं विपर्ययपदं प्रयुक्तम्?
A.निर्गतः
B.कष्टकर:
C.आदर्श:
D.हानिकरः
Ans: हानिकरः
Q4. ‘सर्वत्र पवित्रता विराजते’ अत्र क्रियापदं किम्?
A.सर्वत्र
B.विराजते
C.पवित्रता
D.पवित्रताम्
Ans: विराजते
Q5.

तक्षकः तं सकौतूहलं पृष्टवान् “भोः! भवान् केन वा उद्देश्येन राजधानीं गच्छति? तत्र तु इदानीं महती विशृङ्खला वर्तते। श्वः तक्षक : नाम विषधरः सर्पः महाराजं दक्ष्यति इति श्रूयते। अतः तत्र सुरक्षा व्यवस्था दृढ़तरा सञ्जाता। कोऽपि महाराज्ञः समीप गन्तुं तं द्रष्टुं वा न अनुमन्यते” इति।

“एतत् सर्वं ज्ञायते मया। किन्तु अहं मृतसञ्जीवनी विद्यां जानामि। तक्षक: यदि राजानं दशेत् तर्हि अहमेव तस्मै पुनर्जीवनं प्रदातुं शक्नोमि इति मन्ये। तदर्थमेव तत्र गच्छामि” इति धन्वन्तरिः सस्पृहम् अवदत्। तच्छ्रुत्वा छद्मवेषी तक्षकः शंकितोऽभवत्। ‘यदि सत्यमेव धन्वन्तरिः राजानं मरणाद् रक्षेत्, तर्हि मुनिवचनस्य अन्यथा गतिः भवेत्, ततः मुनेरपि अवमाननं स्यात्’ इति विचिन्त्य सः धन्वन्तरि बहुधा अबोधयत- “भोः, तक्षकस्य विषम् अतिभीषणम् अस्ति। तक्षक-दंशमात्रेण प्राणी भस्मीभविष्यति। अतः तस्य राज्ञः समीपं गमनेन प्रयोजनमेव नास्ति।”

Question -
अनुच्छेदे ‘चिन्तयित्वा’ इति पदस्य कः पर्यायः आगतः?

A.सस्पृहम्
B.अन्यथा
C.विचार्य
D.विचिन्त्य
Ans: विचिन्त्य
Q6. ‘ह्यः’ इति पदस्य कः विपर्ययः अत्र लिखितः?
A.श्वः
B.तर्हि
C.अतः
D.अन्यथा
Ans: श्वः
Q7. ‘एतत् सर्वं ज्ञायते मया’। अस्मिन् वाक्ये क्रियापदं किम्?
A.मया
B.सर्वम्
C.ज्ञायते
D.एतत्
Ans: ज्ञायते
Q8. ‘विषम् अतिभीषणम्’ अनयोः पदयोः विशेषणपदं किम्?
A.विषम्
B.अतिभीषणम्
C.अति
D.भीषणम्
Ans: अतिभीषणम्
Q9.

‘रामायणम् इतिहासः, न तु पुराणम्’ इति हि भारतीया श्रद्धा। या घटना प्रवृत्ता तां विवृणोति इतिहासः। किन्तु पुराणं तथा न। भक्तिश्रद्धादीनाम् उत्पादनाय कथा कल्पते तत्र। पुराणेषु अपि क्वचित् ऐतिहासिकाः अंशाः समाविष्टाः भवन्ति इति तु अन्यद् एतत्। इतिहासग्रन्थे तु यत् वर्ण्यते तत् समग्रं वास्तविकं भवति। वर्णनादिषु कविकल्पना स्यात् चेदपि वृत्तं तु वास्तविकमेव। रामायणमहाभारतयोः ऐतिहासिकताविषये पारम्परिकाणां न सन्देहः कदापि। किन्तु आधुनिकाः इतिहासपुराणयोः भेदस्य अवगमने (ज्ञातुम्) असमर्थाः सन्ति। येन कथा वर्ण्यते विस्तरेण, सः सर्वोऽपि ग्रन्थराशिः पुराणतुल्यः एव इति तेषां मतम् अस्ति। अतः ते रामायणस्य ऐतिहासिकताविषये प्रमाणम् अपेक्षन्ते। तद्विषये मान्येन पुष्कर भटनागर वर्येण कश्चन सफलः प्रयासः कृतः अस्ति। आधुनिकं तन्त्रांशम् (Software) उपयुज्य सः रामायणे वर्णिताः खगोलीयघटनाः वास्तविकाः एव इति सप्रमाणं निरूपितवान् अस्ति।

Question -
‘आधुनिकं तन्त्रांशम्’। अनयोः पदयोः विशेष्यपदं किम्?

A.आधुनिकम्
B.तन्त्रांशम्
C.तन्त्रांशः
D.आधुनिकः
Ans: तन्त्रांशम्
Q10. अनुच्छेदे ‘कल्पते’ इति क्रियायाः कर्तृपदं किम्?
A.उत्पादनाय
B.भक्तिश्रद्धादीनाम्
C.तत्र
D.कथा
Ans: कथा
Q11. ‘या घटना प्रवृत्ता’ अत्र क्रियापदं किम्?
A.या
B.घटना
C.प्रवृत्ता
D.घटनाः
Ans: प्रवृत्ता
Q12. अनुच्छेदे ‘असफलः’ इति पदस्य कः विपर्ययः आगतः?
A.प्रयासः
B.सफल:
C.कृतः
D.सन्देहः
Ans: सफल:
Q13.

कश्चन बालकः आसीत्। तस्य पिता नितरां निर्धनः आसीत्। बालकः अध्ययनं कर्तुम् इच्छति स्म। किन्तु यस्मिन् गृहे उदरपूर्ति-समस्यायाः एव उत्तरं न स्यात् तत्र तस्य अध्ययनाय व्यवस्था कथं भवेत्? अतः बालक: विद्यालयं गच्छतः स्वसम वयस्कान् बालकान् दृष्ट्वा निश्श्वसिति स्म। सः स्नेहपरः मृदुभाषी, उत्साहमूर्तिः च आसीत्। पित्रा सह कार्यं कुर्वन् स: बहूनां बालानां मैत्री सम्पादितवान्। ते बालाः तम् अक्षराणि अपाठयन्। अक्षराभ्यासं कृत्वा अन्यैः उपयुक्तपूर्वाणि पुस्तकानि पठन् शब्दज्ञानादिकं प्राप्तवान् सः। ‘पुत्रः विद्यालयं प्रति प्रेषणीयः’ इति पितुः अपि तीव्र इच्छा आसीत्। किन्तु निर्धनता जन्या असहायकता तं बाधते स्म। अधिक धनसम्पादनस्य आशया सः कदाचित् पुत्रेण सह कलकत्ता नगरं प्रति प्रस्थितवान्। रेलयानेन गमनाय धनं नासीत् अतः तौ पादाभ्याम् एव प्रस्थितवन्तौ।

Question -
‘कश्चन बालकः आसीत्। अत्र कर्तृपदं किम् अस्ति?

A.कश्चन
B.कः
C.बालकः
D.आसीत्
Ans: बालकः
Q14. ‘सः स्नेहपरः, मृदुभाषी, उत्साहमूर्तिः च आसीत्।’ अस्मिन् वाक्ये क्रियापदं किम्?
A.सः
B.आसीत्
C.स्नेहपरः
D.मृदुभाषी
Ans: आसीत्
Q15. ‘तस्य पिता नितरां निर्धनः आसीत्।’ अस्मिन् वाक्ये ‘पिता’ पदस्य किं विशेषणम् आगतम्?
A.नितरां
B.निर्धनः
C.तस्य
D.आसीत्
Ans: निर्धनः
Q16. अनुच्छेदे “धनहीनः” पदस्य कः पर्यायः आगत?
A.अधनः
B.सधनः
C.निर्धनः
D.निर्धनता
Ans: निर्धनः
Q17.

संस्कृतं नाम भारतम्। संस्कृतं नाम भगवद्गीता। संस्कृतं नाम वेदाः रामायणं महाभारतं वा। संस्कृतं हि भारतस्य आत्मा वर्तते। सा भारतस्य आउत्तरात् दक्षिणान्तं, आपूर्वस्मात् पश्चिमान्तं च ऐक्यसाधिकाशक्तिः अस्ति। संस्कृतस्य स्मरणात् पञ्चाङ्गं स्मर्यते, तत्रत्याः तिथयः नक्षत्राणि च अपि स्मर्यन्ते, यासाम् आधारेण एव सर्वैः अपि भारतीयैः पर्वाणि, कुम्भ-मेलकं, होलिकोत्सवः, दीपावली, दुर्गापूजा, रक्षाबन्धनम् इत्यादीनि आचर्यन्ते। गुरुः गोविन्द सिंहः स्वीयान् श्रेष्ठान् सिक्खपण्डितान् काशी प्रति प्रेषितवान् आसीत्-संस्कृतम् अधीयताम् इति आदिश्य। ते च योद्धाः, पण्डिताः क्रान्तिकारिणः च ‘नामधारिणः’ इति विख्याताः आसन्। संस्कृतं भारतात् अपसारितं चेत् तेनेदं नाम एव अस्माकं शरणं स्यात्। आजन्मनः मरणपर्यन्तं संस्कृतस्य अवलम्बनम् अपरिहार्यम् एव अस्माकम्।

Question -
‘ऐक्यसाधिका शक्तिः’ अनयोः पदयोः विशेषणपदं किम्?

A.शक्तिः
B.ऐक्यसाधिका
C.साधिका
D.ऐक्यम्
Ans: ऐक्यसाधिका
Q18. ‘प्रेषितवान् आसीत्’ इति क्रियायाः कर्तृपदं किम् वर्तते अनुच्छेदे?
A.गुरुः गोविन्दसिंहः
B.गुरुः
C.गोविंद सिंहः
D.काशीम्
Ans: गुरुः गोविन्दसिंहः
Q19. ‘अवलम्बनम् अपरिहार्यम् एव अस्माकम्।’ अत्र ‘अस्माकम्’ पदं केभ्यः प्रयुक्तम्?
A.भारतीय
B.भारतीयाय
C.भारतीयेभ्यः
D.जनेभ्यः
Ans: भारतीयेभ्यः
Q20. अनुच्छेदे ‘विद्वांसः’ पदस्य कः पर्यायः आगतः?
A.योद्धाः
B.शिष्याः
C.क्रान्तिकारिणः
D.पण्डिताः
Ans: पण्डिताः

MCQ Questions for Class 10 Sanskrit



Post a Comment

इस पेज / वेबसाइट की त्रुटियों / गलतियों को यहाँ दर्ज कीजिये
(Errors/mistakes on this page/website enter here)

Previous Post Next Post