MCQ Questions for Class 10 Sanskrit Grammer (Vyakaran) अपठित-अवबोधनम् भाग-3 with Answers

MCQ Questions for Class 10 Sanskrit Grammer (Vyakaran) अपठित-अवबोधनम् भाग-3 with Answers 

MCQ Questions for Class10 Sanskrit Grammer (Vyakaran) अपठित-अवबोधनम् भाग-3

अपठित-अवबोधनम् भाग-3 Class 10 Sanskrit MCQs Questions with Answers

Check the below NCERT MCQ Questions for Class 10 Sanskrit Grammer (Vyakaran) अपठित-अवबोधनम् भाग-3 with Answers Pdf free download. MCQ Questions for Class 10 Sanskrit with Answers were prepared based on the latest exam pattern. We have Provided अपठित-अवबोधनम् भाग-3 Class 10 Sanskrit MCQs Questions with Answers to help students understand the concept very well.

Class 10 Sanskrit Grammer (Vyakaran) Quiz

Class 10 Sanskrit Grammer (Vyakaran) MCQ Online Test


You can refer to NCERT Solutions for Class 10 Sanskrit Grammer (Vyakaran) अपठित-अवबोधनम् भाग-3 to revise the concepts in the syllabus effectively and improve your chances of securing high marks in your board exams.

अपठित-अवबोधनम् भाग-3 Class 10 Sanskrit MCQ online test

कक्षा 10 वी के संस्कृत व्याकरण के बहुविकल्पीय प्रश्न उत्तर सहित

कक्षा 10 वी संस्कृत व्याकरण अध्याय (Vyakaran) अपठित-अवबोधनम् भाग-3 के बहुविकल्पीय प्रश्न उत्तर सहित

Q1.

एकस्मिन् वने एकः विशाल: वृक्षः आसीत्। तस्मिन् बहवः खगाः वसन्ति स्म। एकदा ते अतीव बुभुक्षिताः आसन्। अतः भोजनं खादितुम् इतस्ततः भ्रमन्ति स्म। ते दूर-दूरं गच्छन्ति स्म। अन्ते च एकस्मिन् क्षेत्रे तण्डुलकणान् अपश्यन्। ते तत्र गत्वा प्रसन्नतया तण्डुलान् खादन्ति स्म परन्तु जालेन बद्धाः अभवन्। ‘अधुना किं करणीयम्’ इति चिन्तयित्वा ते सर्वे जालेन सह एव एकं स्वमित्रम् उपागच्छन्। तेषां मित्रम् एकः मूषकः आसीत्। सः जालं दन्तैः अकर्तयत्। अन्ते सर्वे स्वतन्त्राः भूत्वा अनृत्यन् अगायन् च-सुखं तु एकतायाम् एव विद्यते।

Question -
अस्मिन् गद्यांशे ‘वृक्षः’ किं विशेषणपदं प्रयुक्तम्?

A.वने
B.विशाल:
C.एकः
D.सः
Ans: विशालः
Q2. अस्मिन् गद्यांशे ‘खादन्ति स्म’ इति क्रियापदस्य कतृपदं किम्?
A.ते
B.मूषकाः
C.बहवः
D.खगाः
Ans: खगाः
Q3. ‘मुक्ताः ‘इति पदस्य अत्र किं विपर्ययपदं प्रयुक्तम्?
A.स्वतन्त्रताः
B.बहवः
C.बुभुक्षिताः
D.बद्धाः
Ans: बद्धाः
Q4. अनुच्छेदे ‘ते सर्वे’ इति कर्तृपदस्य क्रियापदं किम्?
A.स्वतन्त्रताः
B.वसन्ति स्म
C.आसन्
D.उपागच्छन्
Ans: उपागच्छन्
Q5.

एकदा राजकुमारः सिद्धार्थः विहाराय उद्यानं गतवान्। अकस्मात् सः क्रन्दनध्वनिम् अशृणोत्। तदैव च एक: हंसः तस्य सम्मुखे भूमौ अपतत्। तं दृष्ट्वा सिद्धार्थः करुणापूर्णः सञ्जातः। पुनश्च स हंसस्य शरीराद् बाणं निष्कास्य यावत्पश्यति तावद् देवदत्तः तत्र समागतः। स सिद्धार्थम् उक्तवान् “भो सिद्धार्थ! एषः हंसः मया हतः, अतः इमं हंसं मह्यं देहि।” सिद्धार्थः उच्चैः अवदत्-“न दास्यामि इमम् हंसम्, यतः अहम् अस्य रक्षकः” तौ परस्परम् विवदमानौ राजसभां गतवन्तौ। राजा सर्वम् उदन्तं श्रुत्वा आदिष्टवान्-‘यस्य समीपे हंस: गमिष्यति स तस्यैव भविष्यति। हंस: तु सानन्दम् सिद्धार्थमेव उपगतः।” उक्तम् हि रक्षकः भक्षकात् श्रेयान्।

Question -
अत्र ‘गमिष्यति’ इति क्रियापदस्य कर्तृपदं किम्?

A.समीपे
B.यस्य
C.हंसः
D.नृपः
Ans: हंसः
Q6. ‘सहसा’ इति अव्ययस्य कः पर्यायः?
A.अकस्मात्
B.सः
C.उच्चैः
D.यतः
Ans: अकस्मात्
Q7. ‘सिद्धार्थः करुणापूर्णः’ अनयोः पदयोः विशेषणं किम्?
A.सिद्धार्थः
B.करुणापूर्णः
C.सिद्धार्थ
D.करुणा
Ans: करुणापूर्णः
Q8. अनुच्छेदे ‘परोक्षे’ इति पदस्य कः विपर्ययः?
A.उच्चैः
B.अकस्मात्
C.सहसा
D.सम्मुखे
Ans: सम्मुखे
Q9.

अस्माकं विद्यालयः राजकीयः विद्यालयः अस्ति। अत्र पठनस्य तु श्रेष्ठा व्यवस्था अस्ति एव, युगपदेव क्रीडानामपि सुलभा व्यवस्था अस्ति। अतएव अस्माकं विद्यालयस्य सर्वासां कक्षाणां परिणाम: शतप्रतिशतं भवति। क्रीडानां प्रतियोगितासु अपि अस्माकं विद्यालयस्य छात्राः बहुन् पुरस्कारान् अलभन्त। अस्माकं विद्यालयस्य वार्षिकोत्सवः परह्यः सम्पन्नो जातः। तदा अस्माकं राज्यस्य राज्यपाल: मुख्यातिथिः आसीत्। यदैव मुख्यातिथि: द्वारं सम्प्राप्तः छात्रा: वाद्ययन्त्राणां ध्वनिना तस्य स्वागतमाचरन्। ततः सः मञ्चस्य सम्मुखे आसनं भूषितवान्।

Question -
‘व्यवस्था’ इति पदस्य किं विशेषणम्?

A.युगपत्
B.युगपदेव
C.श्रेष्ठा
D.क्रीडानाम्
Ans: श्रेष्ठा
Q10. ‘जातः’ इत्यस्य विलोमपदं किम्?
A.अस्ति
B.भवति
C.आसीत्
D.आचरन्
Ans: भवति
Q11. अस्मिन् गद्यांशे ‘आचरन्’ इति क्रियायाः कर्तृपदं किम्?
A.मुख्यातिथि:
B.स्वागतम्
C.छात्राः
D.तस्य
Ans: छात्राः
Q12. अनुच्छेदे ‘छात्राः’ इति कर्तृपदस्य क्रियापदं किम्?
A.अलभन्त
B.भूषितवान्
C.अस्ति
D.भवति
Ans: अलभन्त
Q13.

सत्सङ्गतेः महिमानं को न जानाति? संसारे सज्जनाः अपि दुर्जनाः अपि सन्ति। दुर्जनस्य संगतिं कोऽपि कर्तुं न इच्छति। अपरत्र सत्संगं विना मानवस्य जीवनम् एव दुर्जीवनं भवति। वस्तुतः सत्संगतिः जनानां पोषिका कुसंगतिश्च नाशिका। सर्वे जनाः स्वपोषमेव इच्छन्ति विनाशं तु न इच्छन्ति। अतः सत्संगतिः एव श्रेयसी। सज्जना: तु स्वगुणैः एव सन्तः कथ्यन्ते, अतएव जनाः सज्जनानां गुणेभ्यः स्पृह्यन्ति। सद्गुणेनैव जनः मनसा वाचा कर्मणा स्वस्थो भवति। तेन तस्य आयुः वर्धते, यशः अपि सततं वर्धते। को न जानाति यत् सर्वेषां देशानां महापुरुषाः अपि सत्संगत्या श्रेष्ठां पदवी प्राप्नुवन्। उक्तं हि भवभूतिना-‘सत्संगजानि निधनान्यपि तारयन्ति।’

Question -
‘कुसंगतिः’ पदस्य किं विपर्यय पदं गद्यांशे लिखितम्?

A.सत्संगतेः
B.सत्संगतिः
C.सद्गुणेन
D.दुस्संगति
Ans: सत्संगतिः
Q14. ‘जनाः गुणेभ्यः स्पृह्यन्ति’ अत्र कर्तृपदं किम्?
A.जनाः
B.गुणः
C.गुणेभ्यः
D.स्पृह्यन्ति
Ans: जनाः
Q15. ‘श्रेष्ठां पदवीम्’ अनयोः विशेषणं किम्?
A.पदवी
B.पदवीं
C.श्रेष्ठा
D.श्रेष्ठाम्
Ans: श्रेष्ठाम्
Q16. अनुच्छेद ‘दुष्टाः’ इति पदस्य कः पर्यायः वर्तते?
A.दुर्जनाः
B.दुर्जीवनम्
C.सज्जनाः
D.कर्मणा
Ans: दुर्जनाः
Q17.

रात्रिः गमिष्यति भविष्यति सुप्रभातं,
भास्वानुदेष्यति हसिष्यति पङ्कजश्रीः।
इत्थं विचारति कोशगते द्विरेफे,
हा-हन्त-हन्त! नलिनी गज उज्जहार॥

Question -
श्लोके ‘कमलम्’ इत्यस्य पदस्य कः पर्यायः प्रयुक्तः?

A.पङ्कजश्रीः
B.सुप्रभातम्
C.नलिनी
D.नलिनीम्
Ans: नलिनीम्
Q18. ‘हा- हन्त हन्त! नलिनी गज उज्जहार।’ अत्र क्रियापदं किम्?
A.नलिनी
B.उज्जहार
C.गजः
D.हा-हन्त-हन्त!
Ans: उज्जहार
Q19.

ओंकारं बिन्दु संयुक्तं, नित्यं ध्यायन्ति योगिनः।
कामदं मोक्षदं चैव, ओंकाराय नमो-नमः॥

Question -
‘ओंकारं बिन्दु संयुक्तम्’ अनयोः पदयोः विशेषणं किमस्ति?

A.बिन्दुः
B.संयुक्तम्
C.बिन्दुसंयुक्तम्
D.ओंकारम्
Ans: बिन्दुसंयुक्तम्
Q20. श्लोके ‘ध्यायन्ति’ इत्यस्य क्रियापदस्य कर्तृपदं किमस्ति?
A.योगिनः
B.कामदं
C.नित्यं
D.ओंकारम्
Ans: योगिनः

MCQ Questions for Class 10 Sanskrit



Post a Comment

इस पेज / वेबसाइट की त्रुटियों / गलतियों को यहाँ दर्ज कीजिये
(Errors/mistakes on this page/website enter here)

Previous Post Next Post